SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१२ बृहत्कल्प-छेदसूत्रम् - ३-४/१२५ तत् ते लभन्ते । चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । शेषा नामयेऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागा भवन्ति । शिष्यः पृच्छति क्षेत्रोपसम्पन्नः सुख-दुःखोपसम्पन्नो वा किं लभते ? सूरिराह [भा. ५४०८ ] खेत्तोवसंपयाए, बावीसं संधुया य मित्ताय । सुह- दुक्ख मित्तवज्जा, चउत्थए नालबद्धाई ॥ वृ- क्षेत्रोपसम्पदा उपसम्पन्नः 'द्वाविंशतिम्' अनन्तर परम्परावल्लीबद्धान् माता-पित्रादीन् जनान् लभते, 'संस्तुतानिच' पूर्व-पश्चात्संस्तवसम्बद्धानि प्रपौत्र - श्वशुरादीनि 'मित्राणिच' सहजातकादीनि लभते, ध्यभाषितानि तु न लभते । सुख-दुःखोपसम्पन्नस्तु एतान्येव मित्रवर्णानि लभते । चतुर्थस्तुपञ्चविधोपसम्पत्क्रमप्रामाण्यात् श्रुतोपसम्पन्नः स केवलान्येव द्वाविंशतिनालबद्धानि लभते, अयं च प्रसङ्गेनोक्तः। क्षेत्रोपसम्पन्न- सुखदुःखोपसम्पन्नयोर्यद् आभाव्यमुक्तं तत् ते शिष्या अनधीयाना द्वितीये तृतीये च वर्षे यथाक्रमं लभन्ते, चतुर्थे वर्षे सर्वमप्याचार्यस्याभवति न तेषाम् ॥ ये तु शिष्या अधीयते तेषां विधिरुच्यते-तस्य कालगताचार्यस्य चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्चेति । एतेषां पूर्वोधिष्ट-पश्चादुद्दिष्टयोः संवत्सरसङ्ख्यया एकादश गमा भवन्ति । पूर्वोष्टिं नाम यत् तेनाचार्येण जीवता तेषां श्रुतमुष्टिम्, यत् पुनस्तेन प्रतीच्छकाचार्येणोधिष्टं तत् पश्चादुद्दिष्टम् । तत्र विधिमाह [भा. ५४०९] पुव्वुद्दिट्ठे तस्सा, पच्छुद्दिट्ठे पवाययंतस्स । संवच्छरम्मि पढमे, पडिच्छए जं तु सच्चित्तं ॥ वृ- यद् आचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पढन् प्रथमे वर्षे यत् सचित्तमचित्तं वा स लभते यत् 'तस्य' कालगताचार्यस्याभवति, एष एको विभागः । अथ पश्चादुद्दिष्टं ततः प्रथमसंवस्तसेर यत् सचित्तादिकं लभते तत् सर्वं 'प्रवाचयतः' प्रतीच्छकाचार्यस्याभवति, एष द्वितीयो विभागः ॥ [भा. ५४१० ] पुव्वं पच्छुद्दिडे, पडिच्छए जं तु होइ सच्चित्तं । संवच्छरम्मि बितिए, तं सव्वं पवाययंतस्स ॥ वृ-प्रतीच्छकः पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठतु यत् तस्य सचित्तादिकं तद् द्वितीये वर्षे सर्वमपि प्रवाचयतो भवति, एष तृतीयो विभागः ॥ अथ शिष्यस्याभिधीयते [ भा. ५४११] पुव्वं पच्छुद्दिट्ठे, सीसम्मिय जं तु होइ सच्चित्तं । संवच्छ रम्मि पढमे, तं सव्वं गुरुस्स आभवइ ।। वृ- शिष्यस्य कालगताचार्येण वा उद्दिष्टं भवेत् प्रतीच्छकाचार्येण वा तदाऽसौ पठन् यत् सचित्तादिकं लभते तत् सर्वं प्रथमे संवत्सरे 'गुरोः' कालगताचार्यस्याभवति, एष चतुर्थो विभागः । [ भा. ५४१२] पुव्वुद्दिनं तस्सा, पच्छुद्दिनं पवाययंतस्स । संवच्छरम्मि बितिए, सीसम्मि उ जं तु सच्चित्तं ।। वृ-शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवति, पञ्चमो विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यं भवति, षष्ठो विभागः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy