________________
२१४
बृहत्कल्प - छेदसूत्रम् -३-४/१२५
सुन्दरम्, अथ न निर्मातस्ततः पुनरपि कुलादिषु कुलादिस्थविरेषु वा तेनैव क्रमेणोपतिष्ठन्ते, तावन्तमेव कालं कुलादीनि यथाक्रमं पाठयन्ति, न च सचित्तादिकं हरन्ति, एवमेतान्यपि द्वादश वर्षाणि भवन्ति । पूर्वद्वादशमिश्च मीलितानि जाता वर्षाणां चतुर्विंशति । यदि एतावता कालेनैकोऽपि निर्मातस्तदा विहरन्तु, अथ न निर्मातस्ततो भूयोऽपि कुल-गण-सङ्खेषु तथैवोपतिष्ठन्ते, तेऽपि तथैव पाठयन्ति । एतान्यपि द्वादश वर्षाणि चतुर्विंशत्या मील्यन्ते जाता षटत्रिंशता वर्षेरेकोऽपि निर्मातस्ततो विहरन्तु ॥ अथैकोऽपि न निर्माताः, कथम् ? इति चेद् उच्यतेओमादिकारणेहि व, दुम्मेहत्तेण वा न निम्माओ ।
[ भा. ५४१९]
काऊण कुलसमायं, कुल थेरे वा उवट्ठति ॥
वृ- अवमा-ऽ शिवादिभिः कारणैरनवरतमपरापरग्रामेषु पर्यटतां दुर्मेधस्तया वा नैकोऽपि निर्मातस्ततः कुलसमवायं कृत्वा (कुलं) कुलस्थविरान् वा सर्वेऽप्युपतिष्ठन्ते ततस्तैरुपसम्पदं ग्राहयितव्याः ।। कुत्र पुनः ? इति चेद् उच्यते
[मा. ५४२०]
पव्वज्जएगपक्खिय, उवसंपय पंचहा सए ठाणे । छत्तीसाऽतिक्कंते, उवसंपय पत्तुवादाए ।
- यः प्रव्रज्या एकपाक्षिकस्तस्य पार्श्वे उपसम्पदं तान् कुलस्थविरा ग्राहयेयुः । सा च उपसम्पत् पञ्चधा वक्ष्यमाणनीत्या 'स्वकम्' आत्मीयं स्थानम् 'उपादाय' गृहीत्वा तैरुपसम्पत्तव्यम् ॥ इदमेव भावयति
[ भा. ५४२१] गुरुसज्झिलओ सज्झंतिओ व गुरुगुरु गुरुस्स वा नत्तू । अहवा कुलिञ्चतो ऊ, पव्वज्जाएगपक्खीओ ।।
वृ- 'गुरुसज्झिलकः' गुरुणां सहाध्यायी पितृव्यस्थानीयः 'सज्झन्तिकः' आत्मनः सब्रह्मचारी भ्रातृस्तानीयः, 'गुरुगुरु' पितामहस्थानीयो गुरु-, गुरोः सम्बन्धी 'नप्ता' प्रशिष्य आत्मानो भ्रातृव्यस्थानीयः, एते प्रव्रज्यया एकपाक्षिका उच्यन्ते । अथवा 'कुलसत्कः' समानकुलोद्भवः सोऽपि प्रव्रज्ययैकपाक्षिकः । एतेषां समीपे यथाक्रममुपसम्पत्तव्यम् ॥ पव्वज्जाए सुएण य, चउभंगुवसंपया कमेणं तु । पुव्वाहियवीसरिए, पढमासइ ततियभंगे उ ॥
[भा. ५४२२]
वृ- इहैकपाक्षिकः प्रव्रज्यया श्रुतेन च भवति । तत्र प्रव्रज्यैकपाक्षिकोऽनन्तरमुक्तः, श्रुतैकपाक्षिकः - येन सहैकवाचनिकं सूत्रम् । अत्र चतुर्भङ्गी - प्रव्रज्ययैकपाक्षिकः श्रुतेन च १ प्रव्रज्यया न श्रुतेन २ श्रुतेन न प्रव्रज्यया ३ न प्रव्रज्यया न श्रुतेन ४ । एतेषु चामुना क्रमेणोपसम्पत् प्रतिपत्तव्या । “पढमा” इत्यादि, प्रथमतः प्रथमतः प्रथमभङ्गे उपसम्पत्तव्यम्, तदभावे तृतीये भङ्गे । कुतः ? इत्याह- यतः पूर्वाधीतं श्रुतं विस्मृतं सत् तेषु सुखेनैवोज्वालयितुं शक्यते, श्रुतैकपाक्षिकत्वात् ॥ अथ पञ्चविधामुपसम्पदमाह
[ भा. ५४२३]
सुय सुह- दुक्खे खेत्ते, मग्गे विनओवसंपयाएय । बावीस संधुय वयंस दिट्ठभट्ठे य सव्वे य ॥
वृ - श्रुतोपसम्पत्9 सुख-दुःखोपसम्पत् २ क्षेत्रोपसम्पद् ३ मार्गोपसम्पद् ४ विनयोपसम्पत् ५ एवमेषापञ्चविधा उपसम्पत्। एतासु पञ्चस्वप्याभवव्यवहारमाह- "बावीस" इत्यादि, श्रुतोपसम्पदि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International