________________
उद्देश : ४, मूलं- १२४, [भा. ५३५६ ]
२०१
जडत्वं द्रष्टव्यम् । गृहिणोऽपि यद् एकस्य निवारितं तद् अन्यस्य निमित्तं कुर्वन्ति 'अन्यं वा ' क्रीतकृतादिकं दोषं कुर्वन्ति एतत् तेषां जडत्वम् । यत् तु पृष्टाः सन्तः परिस्फुटं सद्भावं कथयन्ति एतत् तेषां ऋजुत्वम् ।। अथ मध्यमानामृजु-प्रज्ञतां भावयति
[ भा. ५३५७ ]
उज्जुत्तणं से आलोयणाए पत्रा उ सेसवज्रणया । सन्नायगा वि दोसे, न करेंतऽन्ने न यऽन्नेसिं ॥
वृ- 'रहस्यपि यत् प्रतिसेवितं तद् अवश्यमालोचयितव्यम्' इत्यालोचनया मध्यमतीर्थङ्करसाधूनामृजुत्वं मन्तव्यम्, यत् पुनः शेषाणां तज्जातीयानामर्थानां स्वयमभ्यूह्य ते वर्जनां कुर्वन्ति ततः प्रज्ञा तेषं प्रतिपत्तव्या । ते हि 'नटावलोकनं कर्तुं न कल्पते' इत्युक्ताः प्राज्ञतया स्वचेतसि परिभावयन्ति-यथा एतद् नटावलोकनं 'राग-द्वेषनिबन्धनम्' इति कृत्वा परिह्नियते तथा कयोकनर्तक्यादिदर्शनमपि रागद्वेषनिबन्धनतया परिहर्तव्यमेव; इति विचन्त्य तथैव कुर्वन्ति । संज्ञातका अपि तेषाम् 'इदमुष्टिभक्तं मम न कल्पते' इत्युक्ताश्चिन्तयन्ति-यथैतस्यायं दोषोऽकल्पनीयस्तथाऽन्येऽपि तज्जायाः सर्वेऽप्यकल्पनीयाः, यथा चैतस्य ते अकल्पनीयास्तथा सर्वेषामपि साधूनां न कल्पन्ते । एवं विचिन्त्य 'अन्यान्' उद्गमदोषान् न कुर्वन्ति, अन्येषां च साधूनां हेतोर्न कुर्वन्ति ॥
अथ वक्र-जडव्याख्यानमाह
[भा. ५३५८ ] वंकाउन साहंती, पुट्ठा उभांति उण्ह-कंटादी ।
पाहुणग सद्ध ऊसव, गिहिणो वि य वाउलंतेवं ॥
खू- पश्चिमतीर्थकरसाधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि 'न कथयन्ति' नालोचयन्ति, जडतया च जानन्तोऽजानन्तो वा भूयस्तथैवापराधपदे प्रवर्तन्ते । नटावलोकनं कुर्वाणाश्च ध्ष्टास्ततो गुरुभिः पृष्टाः - किमियती वेलां स्थिताः ? । ततो भणन्ति-उष्णेनाभितापिता वृक्षादिच्छायायां विश्रामं गृहीतवन्तः, कण्टको वा लग्न आसीत् सतत्र स्थितैरपनीतः, आदिशब्दाद् अन्यदप्येवंविधमुत्तरं कुर्वन्तीति । गृहिणोऽपि आधाकर्मादौ कृते पृष्टा भणन्ति प्राघुणका आगतास्तदर्थमिदमुपस्कृतम्, अस्माकं वा ईशे शाल्योदनादौ भक्तेऽद्य श्रद्धा समजनि, उत्सवो वा अद्यामुकोऽस्माकम् । एवं गृहिणोऽपि वक्र-जडतया साधून् 'व्याकुलयन्ति' व्यामोहयन्ति, सद्भावं नाख्यान्तीत्यर्थः । एतेन कारणेन चातुर्यामिक-पञ्चयामिकानामाधाकर्मग्रहणे विशेषः कृत इति प्रक्रमः ॥ अथ द्वितीयपदमाह
[भा. ५३५९ ] आयरिए अभिसेगे, भिक्खुम्मि गिलाणए य भयणा उ । तिक्खुत्तऽडवि पवेसे, चउपरियट्टे तओ गहणं ।।
वृ- आचार्याऽभिषेक- भिक्षूणामेकतरः सर्वे वा ग्लाना भवेयुः तत्र सर्वेषामपि योग्यमुद्गमादिदोषशुद्धं ग्रहीतव्यम् । अलभ्यमाने पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं यदा प्राप्तं भवति तदाऽऽधाकर्मणः 'भजना' सेवना भवति । अथवा भजना नाम- आचार्यस्याभिषेकस्य गीतार्थभिक्षोश्च येन दोषेणाशुद्धमानीतं तत् परिस्फुटमेव कथ्यते । यः पुनरगीतार्थोऽपरिणामको वा तस्य न निवेद्यते । अशिवादिभिर्वा कारणैरटवीम् अध्वानं प्रवेष्टुमभिलषन्ति तत्र प्रथममेव शुद्धोऽध्वकल्पः 'त्रिकृत्वः' त्रीन् वारान् गवेष्यते, यदा न लभ्यते तदा चतुर्थे परिवर्ते पञ्चकपरिहाण्या आधाकर्मिकस्य ग्रहणं करोति ॥ अध्वनिर्गतानां चायं विधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org