________________
२००
बृहत्कल्प-छेदसूत्रम् -३-४/१२४ वृ-कश्चित् प्रथमतीर्थकरसाधुभिक्षां पर्यटन् नटस्य प्रेक्षा' प्रेक्षणकं दृष्टवा कियन्तमपि कालमवलोक्य समागतः, स च ऋजुत्वेनावश्यमाचार्याणामलोचयति, यथा-नो नृत्यन् मया विलकितः।आचार्यरुक्तम्-'सा' नटावलोकना साधूनां कर्तुन कल्पते।ततः यथाऽऽदिशन्ति भगवन्तस्तथैव' इत्यभिधाय भूयोऽपि भिक्षामटन् कयोकादिकमी प्रेक्षते । कयोको नामवेषपरावर्तकारी नटविशेषः । आदिशब्दाद् नर्तकीप्रमृतिपरिग्रहः । ततस्तथैवालोचिते गुरवो भणन्ति-ननुपूर्वं वारितस्त्वमासीः।सप्राह-नट एव द्रष्टुं वारितोनकयोकः, एष चमयाकयोको दृष्टः।एवंयावन्मात्रंपरिश्पुटेन वचसावार्यन्तेतावन्मात्रमेवैतेवर्जयन्ति,नपुनःसामर्थ्योकतमपरस्य पाशस्य प्रतिषेधं प्रतिपद्यन्ते । यदा तु भण्यते "नते वि"ति 'तेऽपि' कयोकादयो न कल्पन्ते द्रष्टुं तदा सर्वानपि परिहरन्ति, अतः पूर्वेषां साधूनां सर्वेऽपि नटादयो न कल्पन्ते द्रष्टुमिति प्रथममेवोपदेष्टव्यम॥ [भा.५३५३] एमेव उग्गमादी, एकेक निवारि एतरे गिण्हे ।
सव्वे विन कपंति, ति वारितो जञ्जियं वजे ॥ वृ-'एवमेव' नटप्रेक्षणोक्तेनैव प्रकारेण पूर्वतीर्थकरसाधुर्यदिएकैकमुद्गमादिदोष निवार्यते ततोयमेवाधाकर्मादिकंदोषं निवारितस्तमेववर्जयति इतरांस्तु पूतिकर्म-क्रीतकृतादीन्गृह्णाति, न वर्जयतीत्यर्थः । यदा तु सर्वेऽपि' उद्गमदोषा न कल्पन्ते इति वारितो भवति तदा सर्वानपि यावज्जीवं वर्जयति ॥अथ संज्ञातकागमनपदं व्याचष्टे[भा.५३५४] सन्नायगा वि उज्जुत्तणेण कस्स कत तुझमेयं ति।
मम उद्दिछ न कप्पइ, कीतं अन्नस्स वा पगरे॥ वृ-प्रथमतीर्थकरतीर्थेयदासाधुः संज्ञातककुलंगच्छतितदातेसंज्ञातकाः किञ्चिदाधाकर्मादिकं कृत्वा साधुना 'कस्यार्थाय युष्माभिरिदंकृतम्?' इतिपृष्टाःसन्त ऋजुत्वेन कथयन्ति-युष्मदर्थमेतद् इति। ततः साधुर्भणति-ममोटिष्टभक्तंन कल्पते। एवमुक्तः स गृही क्रीतकृतं अन्यद्वा दोषजातं कृत्वा दद्यात्, 'उहिष्टमेवामुना प्रतिषिद्धं न क्रीतादिकम्' इति बुध्या । अथवाऽन्यस्य साधोरायाधाकर्म प्रकुर्यात्, 'ममोदिष्टं न कल्पते इति भणता तेनात्मन एवाधाकर्म प्रतिषिद्धम् नान्येषाम्' इति बुध्या॥ [भा.५३५५] सव्वजईण निसिद्धा, मा अनुमन्नत्ति उग्गमाणे सिं।
इति कधिते पुरिमाणं, सव्वे सव्वेसि न करेंति।। - यदा तु तेषां गृहिणामग्रेऽभिधीयते-सर्वेऽप्युद्गमदोषाः सर्वेषां यतीनां निषिद्धाः' न कल्पन्ते, मा भूद् "ने" अस्माकं "सिं" ति तेषां दोषाणां अनुमतिदोष इति कृत्वा । तत एवं कथिते सति ते गृहिणः सर्वेषामपि साधूनां सर्वानप्युद्गमदोषान् न कुर्वन्ति । एवं पूर्वेषां तीर्थे ये दानश्राद्धादयउद्गमदोषकारिणस्तेऽपिऋजु-जडाइतिभावः॥ अथऋजु-जडपदव्याख्यानमाह. [भा.५३५६] उज्जुत्तणं से आलोयणाए जडत्तणं से जं भुजो।
तजातिए नयाणति, गिही वि अन्नस्स अन्नं वा।। वृ-ऋजुत्वं "से" 'तस्य' प्रथमतीर्थकरसाधोरेवं मन्तव्यम्-यद् एकान्तेऽप्यकृत्यं कृत्वा गुरूणामवश्यमालोचयति। यत् पुनर्भूयस्तजातीयान् दोषान् न जानातिन च वर्जयतितेन तस्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org