SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ - उद्देशक : ४, मूलं-१२४, [भा. ५३४९] १९९ वृ एवं यदि समान्येनोपाश्रयाणामामुद्देशं करोति तदा सर्वेषामकल्प्यम् । अथ पूर्वेषामआद्यतीर्थकरसाधूनामुपाश्रयानुद्दिशति ततस्तदर्थमुष्टिष्टं पश्चिमा उपलक्षणत्वात्पूर्वे वा साधवः सर्वेऽपि न भुञ्जते, मध्यमानां पुनः कल्पनीयम् । अथ मध्यमसाधूनामुपाश्रयान् सर्वानुद्दिश्य करोतिततोमध्यमानांपूर्व-पश्चिमानांचसर्वेषामकल्प्यम् । अथ कियतएव मध्यमोपाश्रयानुद्दिशति ततः 'तद्वानां तेषु-उपाश्रयेषुये श्रमणास्तान् वर्जयित्वा शेषाणांमध्यमश्रमणश्रमणीनांकल्पते। “उद्दिट्ठसम पुव"त्तिपूर्वे साधवः-ऋषभस्वामिसत्का भण्यन्ते, ते उदिष्टसमाः' यंसाधुमुद्दिश्य कृतंतत्तुल्याः, एकमुद्दिश्य कृतं सर्वेषामकल्पनीयमिति भावः॥एवं तावत्पूर्वेषांमध्यमानांच भणितम् । अथ मध्यमानां पश्चिमानां चाभिधीयते[भा.५३५०] सव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव । मज्झिमग समण-समणी, पच्छिमगा समण-समणीतो॥ वृ-सर्वे श्रमणाः श्रमण्यो वायदोद्दिश्यन्ते ता सर्वेषामकल्प्यम् । “मज्झिमगाचेव" तिअथ मध्यमाः श्रमणाः श्रमण्यो वा उद्दिष्टास्ततो मध्यमानां पश्चिमानांच सर्वेषामकल्प्यम् । “पच्छिमा चेव" त्ति पश्चिमानां श्रमण-श्रमणीनामुहिष्टे तेषां सर्वेषामकल्प्यम्, मध्यमानां कल्प्यम् । मध्यमश्रमणानामुद्दिष्टं मध्यमसाध्वीनां कल्पते, मध्यमश्रमणीनामुद्दिष्टं मध्यमसाधूनां कल्पते। पश्चिमश्रमणानामुद्दिष्टे पश्चिमसाधु-साध्वीनां न कल्पते, मध्यमानामुभयेषामपि कल्पते । एवं पश्चिमश्रमणीनामप्युधिष्टे वक्तव्यम् ॥ [भा.५३५१] उवस्सग गणिय-विभाइय, उज्जुग-जड्डा यवंक-जड्डाय। मज्झिमग उज्जु-पन्ना, पेच्छा सत्राश्यगाऽऽगमणं॥ अथोपाश्रयेषु साधून गणित-विभाजितान् करोति । गणिता नाम-इयतांपञ्चादिसङ्ख्याकानां दातव्यम्, विभाजिता नाम-'अमुकस्यामुकस्य' इति नामोत्कीर्तनेन निर्धारिताः।अत्रचतुर्भङ्गीगणिताअपि विभाजिता अपि १ गणितान विभाजिताः२विभाजिता न गणिताः३न गणिता नविभाजिताः४।अत्रप्रथमभङ्गेमध्यमानां गणित-विभाजितानामेवाकल्प्यम्, शेषाणां कल्पते। द्वितीयभङ्गे यावद् गणितप्रमाणैर्न गृहीतं तावत् सर्वेषामकल्प्यम्, गणितप्रमाणैर्गृहीते मध्यमानां शेषाणां कल्प्यम् । तृतीयभङ्गे यावन्तः सद्दशनामानस्तेषां सर्वेषामकल्प्यम्, शेषाणां कल्प्यम् । चतुर्थभङ्गे सर्वेषामकल्प्यम् । पूर्व-पश्चिमानां तु सर्वेष्वपि भङ्गेषु न कल्पते । परः प्राह-ननु सर्वेषां सर्वज्ञानां सध्श एव हितोपदेशस्ततः कथं पञ्चयामिकानां चतुर्यामिकानां च विसध्शः कल्प्याऽकल्प्यविधिः ? अत्रोच्यते-कालानुभावेन विनेयानामपरापरं तथातथास्वभावपरिणाम विमलकेवलचक्षुषा विलोक्य तीर्थकृद्भिरित्थं कल्प्या-ऽकल्प्यविधिवैचित्र्यमकारि।तथा चाह"उजुग-जड्डाय" इति, पूर्वसाधवः ऋजु-जडाः पश्चिमसाधवो वक्र-जडा मध्यमा ऋजु-प्राज्ञाः । एतेषां च त्रिविधानामपि साधूनां नटप्रेक्षाध्ष्टान्तेन प्ररूपमा कर्तव्या। त्रिविधानामेव च साधूनां सज्ञातककुलमागतानां गृहिण उद्गमादिदोषान् कुर्युः तत्रापि त्रिधा निदर्शनं कर्तव्यम् ॥ तत्र नटप्रेक्षणकदृष्टान्तं तावदाह[भा.५३५२] नडपेच्छंदणं, अवस्स आलोयणा न सा कप्पे । कउयादी सोपेच्छति, न ते वि पुरिमाण तो सब्वे ॥ Jain Education International ional For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy