SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५६ बृहत्कल्प-छेदसूत्रम् -३-६/१९६ यदाचार्यादीनांप्रायश्चित्तमुक्तं तत् तासामपि यथाक्रमं ज्ञेयम्, अतएवाह-भिक्षुणी क्षुल्लकसशी। अथ स्थविरा प्रवर्तिनीप्रभृतिकामालपति ततः प्रवर्तिन्यास्तूष्णीकादिपदषट्कं कुर्वाणाया गुरुपञ्चदशकादिकंषड्लघुकान्तम्, अभिषेकाया लघुपञ्चदशकादिकं चतुर्गुरुकान्तम्, भिक्षुण्या गुरुदशकादिकं चतुर्लघुकान्तम्, स्थविराया लघुदशकादिकं मासगुरुकान्तम्, क्षुल्लिकाया गुरुपञ्चकादिकंमासलघुकान्तंज्ञेयम्।अथ क्षुल्लिका प्रवर्तिनीप्रभृतिकामालपतिसाचतूष्णाकादीनि पदानि करोति ततःप्रवर्तिन्या लघुपञ्चदशकादिकंचतुर्गुरुकान्तम्, अभिषेकाया गुरुदशकादिकं चतुर्लघुकान्तम्, भिक्षुण्या लघुदशकादिकं मासगुरुकान्तम्, स्थविराया गुरुपञ्चकादिकं मासलघुकान्तम्, क्षुल्लिकाया लघुपञ्चकादिकं गुरुभिन्नमासान्तं मन्तव्यम् । अत एवह-“गुरुलहुपणगाइदोइयर"ति 'इतरे स्विराक्षुल्लिकेतयोद्धयोरपि यथाक्रमगुरुपञ्चकादिकंलघुपञ्चकादिकं चप्रायश्चित्तं भवति॥इहपरुषग्रहणेन निष्ठुर-कर्कशेअपिसूचिते, ततस्तयोःप्रायश्चित्तंदर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह[भा.६११२] लहुओ य लहुसगम्मिं, गुरुगो आगाढ फरुस वयमाणे । निदुर-कक्कसवयणे, गुरुगा य पतोसओ जंच। कृ'लहुसके स्तोकेपरुषवचनेसामान्यतोऽभिधीयमानेमासलघुआगाढपरुष वदतोमासगुरु। निष्ठुरवचने कर्कशवचने चत्वारो गुरवः । यच्च ते परुषं भणिताः प्रद्वेषतः करिष्यन्ति तनिष्पत्रं प्रायश्चित्तम् ॥अथ किमिदं निष्ठुरं? किं वा कर्कशम् ? इत्याशङ्कावकाशं विलोक्याऽऽह[भा.६११३] निव्वेद पुच्छितम्मि, उब्भामइल त्ति निट्ठरं सव्वं । मेहुण संसह्र कक्कसाइं निव्वेग साहेति॥ वृकयाऽपि महेलया कोऽपि साधुः पृष्टः-केन निदेन त्वं प्रव्रजितः ? । स प्राह-मदीया बोजिका उद्घामिका' दुःशीला अतोऽहं प्रव्रजितः । एवमादिकं सर्वमपि निष्ठुरमुच्यते । तथा मैथुने संसृष्टं विलीनभावं दृष्टवा प्रव्रजितोऽहम् । एवं निर्वेदं यत् कथयति तदेवमादीनिवचांसि कर्कशानि मन्तव्यानि ॥ इदमेव व्याचष्टे[भा.६११४] मयं वजं होइ रयावसाणे, तंचिक्कणंगुन्झ मलं झरंतं। अंगेसु अंगाई निगूहयंती, निव्वेयमेवं मम जाण सोमे!॥ वृ-यद् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं मलं 'क्षरत्' परिगलद्, भार्या चात्मीयेष्वङ्गेषु आत्मीयान्येवाङ्गानि जुगुप्सनीयतया निगूहयन्ती मया दृष्टा,एतद् मे 'निर्वेद' निर्वेदकारणं हे सौम्ये ! जानीहि॥तथा[भा.६११५] सखेदणीसहविमुक्कगत्तो, भारेण छिनो ससई व दीहं। हीओ मिजं आसि रयावसाणे, अनेगसो तेन दमंपवत्रो॥ वृ-सखेदं "नीसहूं" अत्यर्थं विमुक्तगात्रः शिथिलीकृताङ्गो भारेण छिनः' त्रुटितो भारवाहको यथा दीर्घ निश्वासिति तथाऽहमपि रतावसाने यदनेकश एवंविधः ‘आसम्' अभूवंतद् अतीव 'हीतः' लज्जितः, एतेन निदेन 'दम' संयम पाठान्तरेण व्रतं वा प्रपन्नोऽहम् ।। गतं परुषवचनम् । अथागारस्थितवचनमाह[भा.६११६] अरे हरे बंभण पुत्ता, अव्वो बप्पो त्ति भाय मामो त्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy