________________
उद्देशक : ६, मूलं- १९६, [भा. ६११६]
भट्टिय सामिय गोमिय, लहुओ लहुआ य गुरुआ य ॥
वृ- अरे इति वा हरे इति वा ब्राह्मण इति वा पुत्र इति वा यदि आमन्त्रणवचनं ब्रूते तदा मासलघु । अव्वो बप्पो भ्रातर् मामक उपलक्षणत्वाद् अम्ब भागिनेय इत्यादीन्यपि यदि वक्ति तदा चतुर्लघु । अथ भट्टिन् स्वामिन् गोमिन् इत्यादीनि गौरवगर्भाणि वचांसि ब्रूते तदा चतुर्गुरुकाः आज्ञादयश्च दोषाः ॥
[भा. ६११७] संथवमादी दोसा, वंति धी मुंड ! को व तुह बंधू । मिच्छत्तं दिय वयणे, ओभावणता य सामि त्ति ॥
३५७
वृ- भ्रातृ-मामकादीनि वचनानि ब्रुवाणेन संस्तवः - पूर्वसंस्तवादिरूपः कृतो भवति, ततश्च प्रतिबन्धादयो बहवो दोषा भवन्ति । अम्ब तात इत्यादि ब्रुवतः श्रुत्वा लोकश्चिन्येत्-अहो ! एतेषामपि माता-पित्रादयः पूजनीयाः । अविरतिकाश्चामन्त्रयतो भूयस्तरा दोषाः । यद्वा स गृहस्थस्तेनासद्भूतसम्बन्धोद्धट्टनेन रुष्टो ब्रूयात्- धिग् मुण्ड ! कस्तवात्र 'बन्धुः' स्वजनोऽस्ति येनैवं प्रलपसि ? । उपलक्षणमिदम्, अरे हरे इत्यादि ब्रुवतः परो ब्रूयात्-त्वं तावद् मां न जानीषे कोऽप्यहमस्मि ततः किमेवम् अरे इत्यादि भणसि ? । एवमसङ्घडादयो दोषाः । 'द्विजवचने च' ब्राह्मण इत्येवमभिधाने च मिध्यात्वं भवति । स्वामिन् इत्याद्यभिधाने च प्रवचनस्यापभ्राजना भवति ॥ गतमगारस्थितवचनम् । अथ व्यवशमितोदीरणवचनमाह
[भा. ६११८] खामित-वोसविताइं, अधिकरणाइं तु जे उईरेंति । ते पावा नायव्वा, तेसिं च परूवणा इणमो ॥
वृ- क्षामितानि वचसा मिथ्युद्ष्कृतप्रानेन शमितानि, वोसवितानि - विविधमनेकधा मनसा व्युत्पृष्टानि, क्षामितानि च तानि व्युत्सृष्टानि चेति क्षामित - व्युत्सृष्टानि । एवंविधान्यदिकरणानि ये भूय उदीरयन्ति ते 'पापा:' साधुधर्मबाह्या ज्ञातव्याः । तेषां च इयं प्ररूपणा ।। उप्पायग उप्पन्ने, संबद्धे कक्खडे य बाहूय । आवट्टणा यमुच्छ्ण, समुघायऽतिवायणा चेव ॥
[भा. ६११९]
[ भा. ६१२०] लहुओ लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥
वृ- द्वौ साधू पूर्वं कलहं कृतवन्तौ, तत्र च क्षामित-व्युत्सृष्टेऽपि तस्मिन्धिकरणेऽन्यदा तयोरेक एवं भणति एवं नाम त्वया तदानीमहमित्थमित्थं च भणितः; एष उत्पादक उच्यते, अस्य च मासलघु । इतरोऽपि ब्रूते-अहमपि त्वया तदानीं किं स्तोकं भणितः ? ; एवमुक्त उत्पादकः प्राहयदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् ? ; एवमधिकरणमुत्पन्नमुच्यते, तत्र द्वयोरपि चतुर्लघु । सम्बद्धं नाम वचसा परस्परमाक्रोशनं कर्तुमारब्धं तत्र चतुर्गुरु । कर्कशं नामतटस्थितैरुपशम्यमानावपि नोपशाम्यतस्तदा षड्लघु । “बाहु "त्ति रोषभरपरवशतया बाहूबाहवि युद्ध कर्तुं लग्नौ तत्र षड्गुरुकाः । आवर्तना नाम-एकेनापरो निहत्य पातितस्तत्र च्छेदः । योऽसौ निहतः स मूर्च्छा यदि प्राप्तस्तदा मूलम् । मारणान्तिकसमुद्धाते समवहतेऽनवस्थाप्यम् । अतिपातनामरणं तत्र पाराञ्चिकम् ॥ अथ द्वितीयपदमाह -
[भा. ६१२१] पढमं विगिंचणट्ठा, उवलंभ विविंचणा य दोसु भवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org