________________
उद्देश : ६, मूलं - १९६, [भा. ६१०९ ]
३५५
चतुर्लघुकादिकं मूलान्तम्, निसृष्टस्य चतुर्गुरुकादिकमनवस्थाप्यान्तं द्रष्टव्यम् । एवमाचार्येणैव भिक्षोरालप्तादिषु पदेषु लघुभिन्नमासादारब्धं मूलान्तम्, स्थविरस्य गुरुविंशतिरात्रिन्दिवादारब्धं छेदान्तम्, क्षुल्लकस्य लगुविंशतिरात्रिन्दिवादारब्धं षड्गुरुकान्तं प्रायश्चित्तं प्रतिपत्तव्यम् ॥ एवं तावदाचार्यस्याचार्यादिभि पञ्चभि पदैः समं चारणिका दर्शिता । साम्प्रतमुपाध्यायादीनां चतुर्णामप्याचार्यादिपदपञ्चकेन चारणिकां दर्शयति
[भा. ६११०] आयरियादभिसेगो, एक्कगहीणो तदिक्किणा भिक्खू । थे तु तदिक्केणं, थेर खुड्डो वि एगेणं ॥
वृ- आचार्याद् 'अभिषेकः' उपाध्याय आलापादिपदानि कुर्वाणश्चारणिकायामेकेन प्रायश्चित्तपदेन हीनो भवति । तद्यथा-उपाध्याय आचार्यमालपति 'क्षमाश्रमणाः ! कथं वर्तते ?” इत्यादि, एवमालप्त आचार्यस्तूष्णीक आस्ते भिन्नमासो गुरुकः, हुङ्कारं करोति मासलघु, एवं तेनैव चारणिकाक्रमेण तावद् नेयं यावद् उपाध्यायेनाचार्यस्य निसृष्टस्य 'किमेतावदारटसि ?” इतिब्रुवाणस्यानवस्थाप्यम् । अथोपाध्याय उपाध्यायमालपति तत आलप्तादिषु पञ्चसु पदेषु तूष्णीकतादिभिषड्भिः पदैः प्रत्येकं चार्यमाणैर्लघुभिन्नमासादारब्धं मूले तिष्ठति । एवमुपाध्यायेनैव भिक्षोरालप्तादिषु पदेषु तूष्णीकतादिभिरेव पदैर्गुरुविंशतिरात्रिन्दिवादारब्धं छेदान्तम्, स्थविरस्य लघुविंशतिरात्रिन्दिवादारब्धं षड्गुरुकानतम्, क्षुल्लकस्य गुरुपञ्चदशरात्रिन्दिवादारब्धं षड्लघुकान्तं द्रष्टव्यम् । यदा तु भिक्षुराचार्यादीनालपति तदा ततः उफआध्यायादेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण लघुपञ्चदशरात्रिन्दिवादारब्धं प्रायश्चित्तं मूले तिष्ठतीत्यर्थः । यदा तु स्थविर आलपति तदा ततः - भिक्षोरेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण गुरुदशरात्रिन्दिवादारब्धं छेदे तिष्ठतीत्यर्थः । यदा तु क्षुल्लक आचार्यादीनालपति तदा सोऽप्येकेन पदेन हीनो भवति । तद्यथा क्षुल्लक आचार्यमालपति यदि आचार्यस्तूष्णीकादीनि पदानि करोति तत आलप्तादिषु पञ्चसु पदेषु लघुविंशतिरात्रिन्दिवादारब्धं षड्गुरुके तिष्ठति । एवं क्षुल्लकेनैवोपाध्यायस्यालप्तादिषु पदेषु तूष्णीकतादिँभि षड्भिः पदैः प्रत्येकं चार्यमाणैर्गुरुपञ्चदशकादारब्धं षड्लघुकान्तम्, भिक्षोर्लघुपञ्चदशकादारब्धं चतुर्गुरुकान्तम्, स्थविरस्य गुरुदशकादारब्धं चतुर्लघुकान्तम्, क्षुल्लकस्य लघुदशकादारब्धं मासगुरुकान्तं प्रायश्चित्तं भवति । एवं सर्वचारणिकाप्रयोगेण लघुदशकादारब्धं षड्गुरुके तिष्ठतीति । एवं तावन्निर्ग्रन्थानामुक्तम् । अथ निर्ग्रन्थीनामतिदिशन्नाह[मा.६१११] भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होइ अभिसेगा । भिक्खुण खुडुसरिच्छी, गुरु-लहुपनगाइ दो इयरा ॥
वृ- इह निर्ग्रन्थीवर्गेऽपि पञ्च पदानि, तद्यथा-प्रवर्तिनी अभिषेका भिक्षुण स्थविरा क्षुल्लिका च तत्र 'गणिनी' प्रवर्तिनी सा भिक्षुसध्शी मन्तव्या । किमुक्तं भवति ? - प्रवर्तिनी प्रवर्तिनीप्रभृतीनां पञ्चानामन्यतमामालप्तादिभि प्रकारैरालपति, साचाऽऽलप्यमाना तूष्णीकादिपदषट्कं करोति ततो भिक्षावालपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां प्रवर्तिनीप्रभृतीनां मन्तव्यम् । अथाभिषेका प्रवर्तिन्यादीनामन्यतरामालपति सा च तुष्णीकादिपदानि करोति ततः स्थविरे आलपति यदाचार्यादीनां प्रायश्चित्तमुक्तं तत् तासां द्रष्टव्यम्, अत एवाह स्थविरसध्क्षा अभिषेका भवति । अत भिक्षुणी प्रवर्तिनीप्रभृतिकामालपति सा च तूष्णीकादीनि करोति ततः क्षुल्लके आलपति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org