________________
बृहत्कल्प - छेदसूत्रम् - ३-६/१९६ चिरप्रव्रजितस्याप्येवंविधः परमकोटिमुपगतः क्रोधः; इति परिभावयतः क्षपक श्रेणिमधिरूढस्य केवलज्ञानमुत्पेदे ॥ एवं चण्डरुद्रस्य 'दुष्टशैक्षः' इत्यादिभणनमिव परुषवचनं मन्तव्यम् । अथ 'आलप्तादिषु पदेषु परुषं भवति' इति यदुक्तं तस्य व्याख्यानमाह
[ भा. ६१०५ ] तुसिनीए हुंकारे, किं ति व किं चडगरं करेसि त्ति । किं निव्वुतिं न देसी, केवतियंवा वि रडसि त्ति ॥
वृ- आचार्यादिभिरालप्तो व्याहृतो व्यापारितः पृष्टो निसृष्टो वा तूष्णीको भवति, हुङ्कारं वा करोति, 'किम् ?' इति वा भणति, 'किं वा चटकरं करोषि ?' इति ब्रवीति, 'किं निर्वृतिं न ददासि ?' इति ब्रूते, 'कियद्वा रटिष्यसि ?' इति भणति । एते सर्वेऽपिं परुषवचनप्रकाराः ॥ अथैतेष्वेव प्रायश्चित्तमाह
३५४
[भा. ६१०६ ] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- लहुको मासो गुरुको मासश्चत्वारो मासा लघवस्वत्वारो मासा गुरवः षण्मासा लघवः षण्मासा गुरवः छेद मूलं तथा 'द्विकम्' अनवस्थाप्यं पाराञ्चिकं चेति ॥
एतदेव प्रायश्चित्तं चारणिकया गाथाद्वयेन दर्शयति
[भा.६१०७] आयरिएणाऽऽलत्तो, आयरितो चेव तुसिणितो लहुओ । रडसि त्ति छग्गुरुंतं, वाहिते गुरुगादि छेदंतं ॥
वृ- आचार्येण आलप्त आचार्य एव तूष्णीको भवति मासलघु । अथ हुङ्कारादिकं रटसीति पर्यन्तं करोति तदा षड्गुरुकान्तम् । तद्यथा-हुङ्कारं करोति मासगुरु, 'किम्' इति भाषतेन 'मस्तकेन वन्दे' इति ब्रवीति चतुर्लघु, 'किं चटकतरं करोषि ?' इति ब्रुवाणस्य चतुर्गुरु, 'किं निर्वृतिं न ददासि ?' इति भाषमाणस्य षड्लघु, 'कियन्तं वा कालं रटसि ? ' इति ब्रुवतः षड्गुरु । व्याहृतस्य तूष्णीकतादिषु पदेषु मासगुरुकादारब्धं छेदान्तं ज्ञेयम् ॥
[भा.६१०८] लहुगाई वावारिते, मूलंतं चतुगुरुगाइ पुच्छिए नवमं । नीस छ पतेसू, छल्लहुगादी तु चरिमंतं ॥
कृ- व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम् । पृष्टस्य चतुर्गुरुकादारब्धं 'नवमम्' अनवस्थाप्यम् । 'निसृष्टस्य 'इदं गृहाण, भुङ्क्ष्व' इत्यायुक्तस्य 'षट्स्वपि' तूष्णीकादिपदेषु षड्लघुकादारब्धं चरमं - पाराञ्चिकं तदन्तं ज्ञातव्यम् ।। एवमाचार्येणाचार्यस्यालप्तादिपदेषु शोधिरुक्ता । अथाऽऽचार्येणैवालप्तादीनामुपाध्यायप्रभृतीनां शोधिं दर्शयितुमाह
[भा. ६१०९ ]
एवमुवज्झाएणं, भिक्खू थेरेण खुडएणं च ।
आलत्ताइपएहिं, इक्किक्कपयं तु हासिज्जा ।।
वृ- 'एवम्' आचार्यवदुपाध्यायेन भिक्षुणा स्थविरेण क्षुल्लकेन च समं आलप्तादिपदैः प्रत्येकं तूष्मीकतादिप्रकारषट्के यथाक्रममेकैकं प्रायश्चित्तपदं हासयेत् । तद्यथा - आचार्य उपाध्यायमनुरूपेणाभिलापेनालपति ततो यदि उपाध्यायस्तूष्णीक आस्ते तदा गुरुभिन्नमासः, हुङ्कारं करोति मासलघु, एवं यावत् किमेतावन्मात्रमारटसि ?' इति भणतः षड्लघु। व्याहृतस्यैतेष्वेव तूष्णीकादिषु पदेषु लघुमासादारब्धं षड्गुरुकान्तम्, व्यापारितस्य गुरुमासादिकं छेदान्तम्, पृष्टस्य
Jaih Education International
For Private & Personal Use Only
www.jainelibrary.org