________________
बृहत्कल्प-छेदसूत्रम् -३-४/१२२
वृ- 'तद्' अशनादिकं कृत्वा' भुक्त्वा कश्चिद् ग्लानादीनां प्रायोग्यमानीय दातुम् ‘अत्युष्णे' अतीवापेचटिन शक्नोति, एतेन कारणेन धारयेत् । यद्वा 'बहु' प्रभूतं भैक्षं लब्धं ततः 'मा परिष्ठापयितव्यं भवेद्' इति ज्ञात्वा गुरवोऽशनादेर्धरणं वितरन्ति, अनुजानन्तीत्यर्थः । गाथायामेकवचनं प्राकृतत्वात् । अथवा "जहासमाहिं" ति प्रथमपौरुष्यां लब्धं परमद्याप्यजीर्णं ततो यावज्जीर्यते तावद्धारयेदपि । एवं यथा यथा समाधिर्भवति तथा भुञ्जीत परं चरमावर्जम्, चतुर्थी पौरुषीं नातिक्रामयेदिति भावः ॥ तत्र च धार्यमाणे इयं यतनासंसज्जिमेसु छुब्मइ, गुलाइ लेवाडे इयरे लोणाई । जं च गमिस्संति पुनो, एसेव य भुत्तसेसे वि ॥
[भा. ५२७४ ]
कृ- 'संसजिमेषु' संसक्तियोग्येषु 'लेपकृतेषु' गोरसादिद्रव्येषु गुडादिकं प्रक्षिप्यते येन न संसज्यन्ते । इतरन्नाम- अलेपकृतं तद् यदि संसक्तियोग्यं तदा तत्र लवणादिकं प्रक्षिपेद्न गुडम् । यच्च प्रथमपौरुष्यां द्वितीयपौरुष्यां वा भुक्त्वा पुनः गमयिष्यन्ति, कियतीमपि वेलां प्रतीक्ष्य भूयो भोक्ष्यन्त इत्यर्थः, तत्रापि भुक्तशेषे धार्यमाणे 'एष एव ' गुडादिप्रक्षेपणरूपो विधिर्भवति ॥
[ भा. ५२७५] चोएइ धरिज्जंते, जइ दोसा गिण्हमाणि किन्न भवे । उस्सग्ग वीसमंते, उब्भामादी उदिक्खते ।
वृ- 'नोदयति' प्रेरयति परः यद्येवं भक्त पाने धार्यमाणे दोषास्ततो भक्तादौ गृह्यमाणे किमेते श्वान - गवादयो दोषा न भवन्ति ? भवन्तेयेव । तथा कायोत्सर्गं कुर्वतोऽपि त एव बाहुपरितापनादयश्च दोषाः, एवं विश्राम्यतोऽपित एव दोषाः, उद्भामकभिक्षाचर्यां ये गतास्तदादीनपि "उदिक्खते" त्ति प्रतीक्षमाणस्य त एव दोषाः । पर एव प्राह
१८४
[भा. ५२७६] एवं अवातरंसी, धूले वि कहं न पासह अवाये । हंदि हु निरंतरोऽयं, भरितो लोगो अवायाणं ॥
वृ- यद्येवं यूयमपि 'अपायदर्शिनः' सूक्ष्मानप्यपायान् प्रेक्षध्वे ततः स्थूलानपि भिक्षाचर्यादिविषयानपायान् कथं न पश्यथ ?, 'हन्दीति' उपदर्शने, 'हु' निश्चितम् पश्यन्तु भगवन्तो यद् एवं निरन्तरो ऽप्ययं लोकोऽपायानां भृतः ॥ कथम् ? इति चेद् उच्यतेभिक्खादि-वियारगते, दोसा पडिनीय-साणमादीया । उप्पते जम्हा, न हुलमा हिंडिउं तम्हा ॥
[भा. ५२७७]
वृ- भिक्षा-विचारादौ गतानां साधूना प्रत्यनीक- श्वान-गवादयो बहवो दोषा यस्मादुत्पद्यन्ते तस्माद् 'नहि' नैव साधुना हिण्डितुं लभ्यम् ॥
[भा. ५२७८ ] अहवा आहारादी, न चेव निययं हवंति घेत्तव्वा । नेवाSSहारेयव्वं, तो दोसा वज्जिया होंति ।।
वृ- अथवाऽऽहारादयः 'नियतं' सर्वदा न ग्रहीतव्या भवन्ति किन्तु चतुर्थ-षष्ठादिकं कृत्वा सर्वथैवाशक्तेनाहारो ग्राह्यः । यद्वा नैव कदाचिदप्याहारयितव्यम् । एवं 'दोषाः' अपायाः सर्वेऽपि वर्जिता भवन्ति । एवं परेणोक्ते सूरिराह
[भा. ५२७९] भन्नति सज्झमसज्झं, कज्जं सज्झं तु साहए मतिमं । अविसज्झं साधेंतो, किलिस्सति न तं च साधेति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org