________________
उद्देशकः ४, मूलं-१२२, [भा. ५२७९]
१८५ . वृ-भण्यतेऽत्र प्रतिवचनम्-कार्यं द्विविधम्-साध्यमसाध्यं च । तत्र मतिमान् साध्यमेव कार्य साधयतिनासाध्यम् । तुशब्द एवकारार्थः । यस्तुयुष्माशोऽविसाध्यं साधयतिसकेवलं क्लिश्यति नचतत्कार्यं साधयति, यथा मृत्पिण्डेन पटादिसाधनाय प्रवर्तमानः पुरुष इति, असाध्यं चात्र भिक्षाचर्यादावपर्यटनम् ॥ कुतः? इति चेद् उच्यते[भा.५२८०] जति एयविप्पहूणा, तव-नियमगुणा भवे निरवसेसा।
आहारमादियाणं, को नाम कहं पि कुव्वेजा। वृ-यदिएतैः-आहारादिभिर्विविधप्रकर्षेण हीनाः-रहितास्तपो-नियमगुणा निरवशेषा भवेयुः ततआहारादीनांको नाम कथामपि कुर्यात्? अतआहारग्रहणार्थं भिक्षायामटनीयमिति प्रक्रमः। एतेन “अहवा आहारादी" इत्याद्यपि प्रत्युक्तं द्रष्टव्यम् ॥ इदमेव सविशेषमाह- ." [भा.५२८१] मोक्खपसाहणहेतू, नाणाती तप्पसाहणो देहो।
देहट्ठा आहारो, तेन तु कालो अनुन्नातो॥ वृ-इह मोक्षप्रसाधनहेतवः 'ज्ञानादीनि' ज्ञान-दर्शन-चारित्राणि, तेषांचप्रसाधनो देहो भवति, अतो देहार्थमाहार इष्यते । स च काले गृह्यमाणो धार्यमाणो वा चारित्रस्यानुपघातको भवति, तेन कारणेन कालोऽनुज्ञातः॥ कथम् ? इत्याह[भा.५२८२] काले उ अनुनाए, जति वि हु लग्गेज्ज तेहि दोसेहिं।
सुद्धो वुवादिनंतो, लग्गति उ विवज्जए परेणं॥ वृ-आद्यप्रहरत्रयलक्षणो द्वितीयादिपौरुषीत्रयात्मकोवा कालो भक्त-पानादेर्धारणेऽनुज्ञातः। एवंविधेऽनुज्ञातेकाले यद्यपि 'तैः' पूर्वोक्तैर्दोषैः लग्येत' स्पृश्यतेतथापिशुद्धः ।अनुज्ञातकालात् परेण 'उपानाययन्' अतिक्रामयन् ‘विपर्यये' अविद्यमानेष्वपि दोषेषु 'लगति' सप्रायश्चित्तो मन्तव्यः॥ [भा.५२८३] पढमाए गिण्हितूणं, पच्छिमपोरिसि उवादिणति जो उ ।
तेचेव तत्थ दोसा, बितियाए जे भणिय पुट्विं ॥ वृ-प्रथमायांपौरुष्यांगृहीत्वापश्चिमांपौरुषी योऽतिक्रामयति तत्रतएव दोषायेपूर्वप्रथमायां गृहीत्वा द्वितीयायामतिकामयतो जिनकल्पिकस्य भणिताः ॥ अमूनि चातिक्रामणकारणानि[भा.५२८४] सज्झाय-लेव-सिव्वण-भायणपरिकम्म-सट्टरादीहिं।
सहस अनाभोगेण व, उवादियं होज् जा चरिमं॥ वृ-स्वाध्यायेऽतीवोपयोगाविस्मृतम् । एवं लेपपरिकर्मणं कुर्वतः, वस्त्र वासीव्यतः, भाजनं वापरिकर्मयतः, देशकथादिकंवा सट्टरम्-आलजालं कुर्वतः, आदिशब्दः सट्टरस्यानेकभेदसूचकः। एतेषुयद्अत्यन्तव्यग्रत्वंस सहसाकारः, 'अनाभोगः' अत्यन्तविस्मृतिः । एवंसहसाकारेणानाभोगेन वा 'चरमां' चतुर्थी यावदतिक्रामितं भवेत् ॥ [भा.५२८५] आहचुवाइणाविय, विगिंचण परिनऽसंथरंतम्मि।
___ अन्नस्स गेण्हणं भुंजणंच असतीए तस्सेव ।। वृ-एतैः कारणैः “आहच्च" कदाचिदतिक्रामितं भवेत् ततः 'विवेच्य' परित्यज्य 'परिज्ञा' दिवसचरमप्रत्याख्यानं कर्तव्यम्। अथ न संस्तरन्तिततःकाले पूर्यमाणे 'अन्यस्य' अशनादेग्रहणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org