________________
१८६
बृहत्कल्प-छेदसूत्रम् -३-४/१२२ भोजनंच कर्तव्यम्।अथ कालोन पूर्यते न वातदानीं पर्याप्तं लभ्यतेततः यतनयायथाअगीता 'तदेवेदमशनादिकम् इति न जानन्ति तथा तस्यैव परिभोगः कर्तव्यः॥ [भा.५२८६] बिइयपएण गिलाणस कारणा अधवुवातिणे ओमे।
. अद्धाण पविसमाणो, मज्झे अहवा विउत्तित्रो॥ वृ-द्वितीयपदे ग्लानस्य कारणात्प्रायोग्यं भक्तादिकमतिरिक्तमपिकालंधारयेत्, ग्लानकृत्ये वाताव व्यापृताःयावत् चरमपौरुषीं जाता, अथवाअवमेपर्यटतएव चतुर्थी साता, अध्वनि वा प्रविशन् सार्थवशगोऽतिक्रामयेत्, एवमध्वनो मध्ये वर्तमानस्ततो वा उत्तीर्णोऽसंस्तरन् अतिक्रामयेद् भुञ्जीत वा न कश्चिद् दोषः॥ व्याख्यातं कालातिक्रान्तसूत्रम् । अथ क्षेत्रातिक्रान्तूसत्रं व्याख्यानयति[भा.५२८७] परमद्धजोयणाओ, उजाण परेण चउगुरू होति।
आणादिणो य दोसा विराधना संजमा-ऽऽयाए। वृ-अर्धयोजनं-द्विगव्यूतंततः परमशनादिकमतिकामयतश्चतुर्गुरु।आस्तांतावद्अर्धयोजनम् अग्रोद्यानादपि परेणातिकामयतश्चतुर्गुरुकाः आज्ञादयश्चदोषाः, संयमा-ऽऽत्मनोश्च विराधना।।
तामेवाह[भा.५२८८] भारेण वेदनाए, न पेहती खाणुमादि अभिघातो।
इरिया पगलिय तेनग, भायणभेदो य छक्काया। - वृ-भारेणाक्रान्तो वेदनाभिभूतः स्थाणु-कण्टकादीनि न प्रेक्षते, अश्वादिभिर्वाऽभिहन्यते, अथवा “अभिघाउ" त्ति वटशाखादिना शिरसि घट्यते, ईयाँ वा न शोधयति, दूरनयनेन च भक्तपाने परिगलिते पृथिव्यादिविराधना, स्तेनैर्वा समुद्देशो हियेत । क्षुधा-पिपासातस्य वा क्षीणबलस्य भाजनभेदो भवेत् तत्र षट्कायविराधना। आत्मनः परस्य च तेन विना परिहाणि॥
परः प्राह[भा.५२८९] उज्जान आरएणं, तहियं किं ते न जायते दोसा।
- परिहरिया ते होजा, जति वितहिं खेत्तमावजे ॥ वृ-उद्यानादारतो ग्रामादेरानीयमाने भकत-पाने किं ते दोषा न जायन्ते यदेवमुद्यानात् परत इत्यभिधीयते? । सूरिराह-'ते' दोषास्तीर्थकरवचनप्रामाण्येन परिहृता भवन्ति यद्यप्यनुज्ञातक्षेत्रे तान् दोषानापद्यते । पुनमरपि परः प्रेरयति[भा.५२९०] एवं सुतं अफलं, सुत्तनिवातो इमोतु जिनकपे।
गच्छम्मि अद्धजोयण, केसिंची कारणे तं पि। वृ- ननु यद्युद्यानात् परतो नातिक्रामयितव्यम् ततो यत् “परमद्धजोयणमेराओ"त्ति सूत्रं भणितंतद् अफलं प्राप्नोति। आचार्यप्राह-यद् ‘अग्रोद्यानात्परतोनातिक्रामयितव्यम्' इत्युच्यते स एष सूत्रार्थनिपातः 'जिनकल्पे' जिनकल्पिकविषयो मन्तव्यः, यत् पुनः “अर्द्धयोजनात् परतः" इत्यादि सूत्रंतद् गच्छवासिविषयम्, कारणेतु तदप्यर्धयोजनं नेतव्यम्, एवमापवादिकं सूत्रम् । यद्वा "केसिंची कारणे तं पि" त्ति अन्यथा व्याख्यायते- 'केषाञ्चिद्' आचार्य-बालवृद्धादीनां कारणे 'तदपि' अर्धयोजनंगम्यते ॥ इदमेव भावयति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only