________________
उद्देशकः ५, मूलं-१५३, [भा. ५८९१]
३०९ एष कारणे यतनया गृहीतस्य संसक्तस्य विवेचने विधिरवगन्तव्य इति सङ्ग्रहगाथासमासार्थः॥
अथैनामेव विवृणोति[भा.५८९२] आउट्टि गमन संसत्त गिण्हणं न य विविंचए खिप्पं ।
ओम गिलाणे वेला, विहम्मि सत्यो वइक्कमइ ।। वृ- यथाऽऽकुट्टिकया संसक्तदेशे गमनं तथा तत्र गतः संसक्तमपि गृह्णीयात् न च क्षिप्रं 'विविञ्चयात्' परिष्कायेत् । कुतः? इत्याह-अवमे भिक्षाकालः स्फिटति, ग्लान्ये वा ग्लानस्य वेलाऽतिक्रमेत्, 'विहे' अध्वनि सार्थो व्यतिक्रामति, ततः क्षिप्रं न परित्यजेत् ॥ [भा.५८९३] असिवादी संसत्ते, संकप्पादी पदा तुजह सुझे।
संसठ्ठसत्तुचाउल, संसत्तऽसती तहा गहणं॥ वृ-असिवादिभिः कारणैर्यथा संसक्ते देशे सङ्कल्पादीनि पदानि कुर्वाणोऽपि शुध्यति तथा तत्र गतो यदि असंसक्तं पानकं न लभते ततः संसृष्टपानकं तन्दुलोदकं वा संसक्तं सक्तून् वा संसक्तान्तथैव गृह्णीयात् ॥ तेषां पुनः गृहीतानामयं विधिः[भा.५८९४] ओवग्गहियं चीरं, गालणहेउं घनं तु गेण्हंति।
तह वियअसुज्झमाणे, असती अद्धाणजयणा उ॥ वृ-औपग्रहिकं 'घन' निश्छिद्रंचीवरं तेषां संसक्तपानकानां गालनाहेतोगुह्णन्ति । तथापि' तेनापिगाल्यमानंयदिन शुध्यतिनवातण्डुलधावनादिकमपिलभ्यते, ततोया प्रथमोद्देशकेऽध्वनि गच्छतां “तुवरे फले य रुक्खे०" इत्यादिना पानकयतना भणिता सा कर्तव्या ।।
अथ दधिविषयं विधिमाह[भा.५८९५] संसत्त गोरसस्सा, न गालणं नेव होइ परिभोगो।
कोडिदुग-लिंगमादी, तहि जयणा नोय संसत्तं ।। वृ-यदि क्वापि संसक्तो गोरसो लभ्यते ततस्तस्य न गालनं न वा परिभोगः कर्तव्यः, किन्तु "कोडिदुग-लिंगमाइ" त्ति कोटिद्वयेन-विशोधिकोट्या विशोधिकोट्या अविशोधिकोट्या च भक्त-पानग्रहणे यतितव्यं यावदाधाकर्मापि गृह्यते, अन्यलिङ्गमपि कृत्वा भक्त-पानमुत्पाद्यते, न पनः संसक्तो गोरसो ग्रहीतव्यः ।। अथ "इयराणिय" इत्यादिपश्चार्द्ध व्याचष्टे[भा.५८९६] सागारिय सव्वत्तो, नत्थिय छाया विहम्मि दूरे वा।
वेला सत्थो व चले, न निसीय-पमजणे कुजा॥ वृ-अध्वनि गच्छतां सर्वतोऽपि सागारिकम्, छाया च तत्र नास्ति, अस्ति वा परं दूरे, तत्रच गच्छतां वेलाऽतिक्रामति, सार्थोवाचलति, तत्र उष्णेऽपिभूभागेपरिष्ठापयेत् । यत्र चोपविशतः सागारिकं शङ्कादयो वा दोषाः अशुचिकं वा स्थानं तत्र निषदन-प्रमार्जने अपि न कुर्यात् ।।
मू. (१५४) निग्गंथस्स य गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स अंतोपडिग्गहगंसि दगेवा दगरएवादगफुसिए वा परियावजेजा, से य उसिणे भोयणजाते भोत्तव्ये सिया; से य सीए भोयणजातेतंनोअप्पणा भुंजेजा, नो अन्नेसिंदावए, एगंते बहुफासुए पदेसे परिट्टवेयव्वेसिया।
वृ-अस्य सम्बन्धमाह[भा.५८९७] आहारविही वुत्तो, अयमनो पानगस्स आरंभो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org