SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ बृहत्कल्प-छेदसूत्रम् -३-५/१५३ गृह्णानो वा गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि 'शुध्येत' प्रायश्चित्तभाग न भवेत् ॥ [भा.५८८७] ओमाणपेल्लितो वेलऽतिक्कमो चलिउमिच्छति भयं वा । एवंविहे अपेहा, ओमे सतिकाल ओमाणे॥ वृ-अध्वनि वा गच्छतांसार्थः 'अवमानप्रेरितः प्रभूतभिक्षाचराकीर्ण, यावच्च प्रत्युपेक्षतेतावद् वेलातिक्रमोभवति, सच सार्थश्चलितुमिच्छति, पृष्ठतोगच्छतांचभयम्, ततएवंविधेकारणेऽप्रेक्षा, प्रत्युपेक्षामन्तरेणापि पिण्डं गृह्णीयादित्यर्थः । अवमे च प्रत्युपेक्षमाणानां 'सत्कालः' भिक्षाया देशकालः स्फिटतिसूर्योवाऽस्तमेति अवमानं वा-भिक्षाचराकीर्णं ततोऽप्रत्युपेक्षितमपिगृह्णीयात्। [भा.५८८८] तो कुजा उवओगं, पाने दह्ण तं परिहरेजा। कुजा न वा व पेहं, सुज्झइ अतिसंभमा सो तु॥ वृ-यदि अनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् । कृते चोपयोगे यदि प्राणिनः पश्यतिततस्तान् दृष्टवा तद् भक्त-पानंपरिहरेत्।अथवाअत्यातुरः प्रेक्षाम् उफयोगमपि च कुर्याद् वा न वा । अनुपयुआनोऽपि चातिसम्भ्रमादसौ साधुः शुध्यति । यचाधस्तादुक्तं “संसक्तः शुष्कौदनः पृथग् गृह्यते" तत्राप्येतेष्वेव ग्लाना-ऽध्वा-ऽवमेषु कारणेषु द्वितीयपदं मन्तव्यम्। तथा चाह[भा.५८८९] वीसुंघेप्पइ अतरंतगस्स बितिए दवं तु सोहेति। तेन उ असुक्खगहणं, तं पि य उण्हेयरे पेहे॥ कृ-'अतरन्तगस्य' ग्लानस्य योग्यं विष्वग्' एकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके द्रवं शोधयति, ततो यत्र शुष्कौदनः पृथग गृह्यते तत् तृतीयं मात्रकं नास्तीति कृत्वा शुष्कमा वा एकत्रैव प्रतिग्रहे गृह्णीयात् । ग्लानस्यापि यद् ओदन-द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृह्णाति तदपि उष्णं ग्रहीतव्यम् । 'इतरत् तु' शीतलं प्रत्युपेक्षेत, यदि असंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः॥ [भा.५८९०] अद्धाणे ओमेवा, तहेव वेलातिवातियं नातुं। दुल्लभदवे व मा सिं, धोवण-पियणा न होहिंति॥ वृ-अध्वनि वाऽवमौदर्ये वा वेलाया अतिपातम्-अतिक्रमं ज्ञात्वा तथैव शुष्कं विष्वग्न गृह्णीयात् । दुर्लभं वातत्र ग्रामे द्रवं-पानकं ततो मा "सिं" एषां साधूनां भाजनधावन-पाने न भविष्यति इति कृत्वा पूर्वं मात्रके द्रवं गृहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथग् गृह्यते अत एकत्रैव गृह्णीयात् । उक्तमोदनविषयं द्वितीयपदम् । अथ पानकविषयमाह[भा.५८९१] आउट्टिय संसत्ते,देसे गेलनऽद्धाण कक्खडे अखिपं। __ इयराणिय अद्धाणे, कारण गहिते य जतणाए॥ वृ-यथा कारणे 'आकुट्टिकया' जानन्तोऽपि संसक्ते देशे गच्छन्ति तथा तत्र गताः सन्तः संसक्तमपि पानकं गृह्णन्ति । गृहीत्वा च ग्लानत्वेऽध्वनि 'कर्कशे वा' अवमे क्षिप्रं न परित्यजे युरपि। तथाहि-ग्लानत्वेयावत् संसक्तं परिष्ठापयन्तितावद् ग्लानस्य वेलातिक्रमो भवति, अध्वनि सार्थात् परिभ्रश्यन्ति, अवमौदर्ये भिक्षाकालः स्फिटति, ततोन क्षिप्रं परित्यजेयुः। 'इतराणिच' सागारिकस्यपश्यतः परिष्ठापनम् इत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यष्यध्वनिवर्तमानः कुर्यात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy