SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उद्देशक: ५, मूलं - १५३, [भा. ५८८१ ] ३०७ गृह्यन्ते । चतुर्दिवसकृतादयस्तु सर्वेऽप्येकत्र गृह्यन्ते तेषामयं प्रत्युपेक्षणाविधि-रजस्त्रणमधः पस्तीर्य तस्योपरि पात्रकबन्धं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्ध्वमुखं पात्रकबन्धं कृत्वा एकस्मिन् पार्श्वे नीत्वा यास्तत्र ऊरणिका लग्नास्ता उद्धृ त्य कर्पर प्रक्षिप्यन्ते, एवं प्रत्युपेक्ष्य भूयोऽपि तथैव प्रत्युपेक्षन्ते ॥ ततः [ भा. ५८८२ ] नव पेहातो अदिट्टे, दिट्ठे अन्नाओ होंति नव चैव । एवं नवगा तिन्नी, तेन परं संथरे उज्झे । वृ- नववाराः प्रत्युपेक्षणां कृत्वा यदि प्राणजातीया न दृष्टास्तो भोक्तव्यास्ते सक्तवः, अथ दृष्टास्ततो भूयोऽप्यन्या नववारा प्रत्युपेक्षणा भवति, तथापि यदि ध्ष्टास्ततः पुनरपि नववाराः प्रत्युपेक्षन्ते । ततो यद्येवं त्रिभिर्नवकैः शुद्धास्ततो भुञ्जताम् । अथ न शुद्धास्तदा ततः परं 'उज्झेत्' परिष्ठापयेत् । अथासंस्तरणं ततस्तावत् प्रत्युपेक्षन्ते यावत् शुद्धीभवन्ति ॥ प्राणजातीयानां च परिष्ठापने विधिरयम्[भा. ५८८३ ] आगरमादी असती, कप्परमादीसु सुत्तए उरणी । पिंडमलेवाडाण य, कातूण दवं तु तत्थेव ॥ वृ- या ऊरणिकाः प्रत्युपेक्षमाणेन दृष्टास्ता आकरादिषु परिष्ठापनीयाः । इह घरट्टादिसमीपे प्रभूता यत्र तुषा भवन्ति स आकर उच्यते । तस्याभावे कर्परादिषु स्तोकान् सक्तून् प्रक्षिप्य तोरणिकाः स्थापयित्वा बहिरनाबाधे प्रदेशे स्थाप्यन्ते । यदि च द्रवभाजनं नास्ति ततो ये सक्तवः शुद्धा अलेपकृताश्च ते 'पिण्डं कृत्वा' भाजनस्यैकपार्श्वे चम्पयित्वा तत्रैव च द्रवं 'कृत्वा ' गृहीत्वा भुञ्जते ॥ यत्र च काञ्जिकं संसज्यते तत्रायं विधिः [भा. ५८८४ ] आयामु संसद्बुसिणोदगं वा, गिण्हंति वा निव्वुत चाउलोदं । गित्यभाणे व पेहिऊणं, मत्ते व सोहेत्तुवरिं छुभंति ॥ वृ- आयामं संसृष्टपानकमुष्णोदकं वा 'निर्वृतं वा' प्राशुकीभूतं 'चाउलोदकं' तण्डुलधावनं गृह्णन्ति । एतेषामभावे तदेवकाञ्जिकं गृहस्थभाजनेषु प्रत्युपेक्ष्य मात्रके वा सोधयित्वा यद्यसंसक्तं तदा प्रतिग्रहोपरि प्रक्षिपन्ति ।। द्वितीयपदमाह [भा. ५८८५ ] बिइयपद अपेक्खणं तू, गेलन - ऽद्धाण- ओममादीसु । तं चेव सुक्खगहणे, दुल्लभ दव दोसु वी जयणा ।। - द्वितीयपदे ग्लानाSध्वा ऽवमादि कारणेषु 'अप्रेक्षणं' पिण्डस्याप्रत्युपेक्षणमपि कुर्यात् । 'तदेव च' ग्लानत्वादिकं द्वितीयपंद 'शुष्कस्य' ओदनस्य ग्रहणे मन्तव्यम् । दुर्लभं वा द्रवं पश्चान्न लभ्यते ततः पूर्वं तद् गृहीतमिति कृत्वा नास्ति तद् भाजनं यत्र पृथक् शुष्कं गृह्यते । “दोसु वी जयण'' त्ति 'द्वयोरपि' अप्रत्युपेक्षणा-शुष्कग्रहणयोरेषा यतना कर्तव्या । एष सङ्ग्रहगाथासमासार्थः । साम्प्रतमेनामेव विवृणोति [भा. ५८८६ ] अच्चाउर सम्मूढो, वेलाऽतिक्कमति सीयलं होइ । असढो गिहण गहिते, सुज्झेज्ज अपेक्खमाणो वि ।। वृ- कश्चिदतीव 'आतुरत्वेन' ग्लानत्वेन 'सम्मूढः' सम्मोहं समुद्धातमुपगतस्ततो यावत् प्रत्युपेक्षते तावद् वेलाऽतिक्रामति शीतलं वा तावता कालेन भवति, तत एवम् 'अशठः' विशुद्धभावो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy