SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ बृहत्कल्प-छेदसूत्रम् - ३-५/१५३ [भा. ५८७६ ] सत्त पदा गम्मंते, जावति कालेण तं भवे खिप्पं । कीरंति व तालाओ, अद्दुयमविलंबितं सत्ता ॥ वृ- यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् । यावता वा कालेनाद्रुतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् ॥ [भा. ५८७७ ] तम्हा विविंचितव्वं, आसन्ने वसहि दूर जयणाए । सागारिय उन्ह ठिए, पमञ्जणा सुत्तग दवे य ॥ वृ- तस्मात् तद् जन्तुसंसक्तमनन्तरोक्तक्षिप्रकालमध्य एव विवेचनीयम् । यदि च वसतिरासन्ना ततस्तत्र गत्वा परित्यक्तव्यम् । अथ दूरे वसति ततः शून्यगृहादिषु यतनया परिष्ठापयति । अथ सागारिके पश्यति उष्ण वा भूभागे 'स्थितो वा' ऊर्ध्वस्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चित्तम् । यत्र च परिष्ठाप्यते तत्र प्रमार्जना कर्तव्या । एवमोदनस्य विधिरुक्तः । सक्तूनांद्रवस्य चैवमेवाल्पसागारिके प्रमृज्य छायायां परिष्ठापनं विधेयम् ॥ इदमेव व्याचष्टे [भा. ५८७८ ] जावइ काले वसहिं, उवेति जति ताव ते न विद्दति । तं पि अनुण्हमदवं तो, गंतूणमुवस्सए एडे ॥ वृ- यावता कालेन वसतिमुपैति तावता कालेन यदि 'ते' प्राणिनः 'न विद्रान्ति' न विनश्यन्ति तदा तद् वसतिं नीयते । तदप्यनुष्णमद्रवं च यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्तं भवति ? - यदि उष्णः कूरो द्रवं वा संसक्तं ततः प्रतिश्रयं न नीयते, मा यावत् प्रतिश्रयं नीयते तावत् प्राणजातीया उष्णे द्रवे वा मिरष्यन्तीति कृत्वा । अथानुष्णमद्रवं च तत उपाश्रये गत्वा 'एडयेत्' परिष्ठापयेत् । यत् पुनरुष्णं द्रवं वा तत् तत्रैव शून्यगृहादौ परिष्ठापनीयम् । अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ॥ [ भा. ५८७९ ] सुन्नघरादीणऽसती, दूरे कोण वतिअंतरीभूतो । उक्कुडु पमज्ज छाया, वति-कोणादीसु विक्खिरणं ।। वृ- अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्याऽन्तरितीभूतो वा सागारिको न पश्यति तत्रोत्कृटको भूत्वा प्रमृज्य छायायां वृतेः कोणके प्रक्षिपति, आदिग्रहणेन वृतेर्मध्येऽपि विकिरति, परिष्ठापयतीत्यर्थः । एवमोदनस्य सक्तूनां द्रवस्य वा परिष्ठापनं कर्तव्यम् । [ भा. ५८८०] सागारिय उण्ह ठिए, अपमज्जंते य मासयं लहुगं । _वोच्छेदुड्डाहादी, सागारिय सेसए काया ।। - अथ सागारिके उष्णे वा प्रदेशे भूत्वा 'स्थितो बा' ऊर्द्धभूतोऽप्रमार्ण्य वा परिष्ठापयति ततश्चतुर्ष्वपि लघुमासिकम् । सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा स भक्तपानदानव्यवच्छेदमुडाहादिकं वा कुर्यात् । 'शेषे तु' उष्णादित्रये परिष्ठापयतः पृथिव्यादिकाया विराध्यन्ते । [ भा. ५८८१] इइ ओअण सत्तुविही, सत्तू तद्दिनकतादि जा तिन्नि । वीसुं वसुं गहणं, चतुरादिदिनाइ एगत्थ ॥ वृ- 'इति' एवोदनस्य संसक्तस्य विधिरुक्तः । अथ सक्तूनां संसक्तानां विधिरुच्यते-यत्र सक्तवः संसक्ता लभ्यन्ते तत्र नैव गृह्यन्ते । अथ न संस्तरन्ति ततस्तद्दिवसकृतान् सक्तून् गृह्णन्ति। आदिशब्दात् तैरप्यसंस्तरन्तो द्वितीय-तृतीयदिनकृतानपि सक्तून् गृह्णन्ति, ते पुनः पृथक् पृथग् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy