________________
३०५
उद्देशकः ५, मूलं-१५३, [भा. ५८७०] वल्गुलीव्याधिः, ततश्च क्रमेण मरणं भवेत्, कण्टको वा विष वा समागच्छेत् । उभयविराधनायां 'मुइङ्गाः' पिपीलिका मक्षिका-वृश्चिक-गोपालिकादयो वाभवन्ति। गोपालिका-अहिलोडिकाख्यो जीवविशेषः । एते हि जीवा भक्तेन सह भुक्ताः संयमोपघातमात्मनश्च मेधाधुपघातं कुर्वन्ति। [भा.५८७१] पवयणघातिंव सिया, तं वियर्ड पिसियमट्ठजातं वा।
आदान किलेसऽयसे, दिटुंतो सेट्ठिकब्बडे॥ वृ-प्रवचनोपघाति वा स्यात् तद् विकटम्, पिशितं वा तत् ‘स्याद्' भवेत्, ‘अर्थजातं वा' सुवर्णसङ्कलिका-मुद्रिकादिकं कश्चिदनुकम्पयाप्रत्यनीकतयावादद्यात्, ततःपतितंपिण्डंप्रत्युपेक्षेत। तच्चाप्रत्युपेक्ष्य गृहीतं मन्दधर्म कस्याप्युप्रव्रजितुकामस्य आदानम्' आजीविकाकारणं भवति, तद् आदायोप्रव्रजतीत्यर्थः । अर्थजाते च गृहीते साधूनां रक्षणादिको महान् परिक्रेशोऽयशो वा भवेत्। तथा चार् “सिट्टिकब्बडे"त्ति राज्यपदोपविष्टकल्पस्थकोपलक्षितस्य काष्ठश्रेष्ठिनोदृष्टान्तः, सच आवश्यकटीकातो मन्तव्यः॥ [भा.५८७२] तम्हा खलु दट्ठव्वो, सुक्खग्गहणं अगिण्हणे लहुगा।
आणादिणो य दोसा, विराधना जा भणिय पुब्बिं ॥ वृ-यत एते दोषास्तस्तमात् 'खलु' नियमात् पात्रकपतितः पिण्डो द्रष्टव्य । संसक्ते च देशे शुष्कस्य कूरस्य पृथग्मात्रके ग्रहणं कार्यम् । अथ पृथग् न गृह्णाति ततश्चतुर्लघु आज्ञादयश्च दोषाः, विराधनाच द्विधा संयमा-ऽऽत्मविषयाया पूर्वम् अनन्तरमेव भणिता॥इदमेवभावयति[भा.५८७३] संसजिमम्मि देसे, मत्तग सुक्ख पडिलेहणा उवरिं।
एवं ताव अनुण्हे, उण्हे कुसणंच उवरिंतु॥ वृ-संसजिमे देशे यः शुष्कः पौद्गलिकोऽनुष्णो लभ्यते स मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि प्रक्षिप्यते। एवं तावदनुष्णे विधिरुक्तः।यः पुनरुष्णः कूरः कुसणं वा तद् नियमादसंसक्तमित कृत्वा प्रतिग्रहस्यैवोपरि गृह्यते ॥ [भा.५८७४] गुरुमादीन व जोग्गं, एगम्मितरम्मि पेहिउं उवरिं।
दोसु वि संसत्तेसुं, दुल्लह पुव्वेतरं पच्छा।। वृ-गुरु-ग्लानादीनां वा योग्यमेकस्मिन् मात्रके गृह्यते, 'इतरस्मिन् द्वितीये मात्रके संसक्तं प्रत्युपेक्ष्य पतिग्रहोपरि प्रक्षिप्यते । एवं तावद् यत्रैकं भक्तंपानकं वा संसक्तं तत्र विधिरुक्तः। यत्र तु द्वे अपि-भक्त-पानके संसक्ते भवतः तत्र यद् भक्तं पानकं वा दुर्लभं तत् पूर्वं गृह्णन्ति 'इतरत्' सुलभं पश्चाद् गृह्णन्ति॥ [भा.५८७५] एसा विही तु दिखे, आउट्टियगेण्हणे तु जंजत्थ ।
अणभोगगह विगिचण, खिप्पमविविंचति यजं जत्थ ॥ वृ- एष विधि दृष्टे गृह्यमाणे भणितः । अथाकुट्टिकया संसक्तं गृह्णाति ततो यद् यत्र द्वीन्द्रियपरितापनादिकं करोति तत् तत्र प्राप्नोति । अथानाभोगेन संसक्तं गृहीतं ततः क्षिप्रमेव विवेचनम् । अथ क्षिप्रं न विविनक्ति ततो यावत् परिष्ठापयति तावद् तत्र यद् विनाशमश्नुते तनिष्पन्नं प्रायश्चित्तम् । कः पुनः क्षिप्रकालः ? इत्याह[20] 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org