SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०४ बृहत्कल्प-छेदसूत्रम् -३-५/१५३ का पुनर्यतना ? इत्याह-पूर्वमेव गृहस्थहस्तगतः पिण्डो निरीक्षणीयः, यदि शुद्धस्ततो गृह्यते । एवं यतनया गृहीतोऽपि प्रतिग्रहे पतितो द्रष्टव्यः । यदि न प्रेक्षते ततो लघुको मासः, ज्ञादयश्च दोषाः । विराधना च द्विविधा तत्र संयमे त्रसादय उष्णे वा द्रवे वा पतिता विराध्यन्ते, आत्मविराधना तु मक्षिकादिसम्मिश्रे भुक्ते वल्गुलीव्याधिर्मरणं वा भवेत् । तस्मात् प्रथममेव प्रतिग्रहपतितः पिण्डो द्रष्टव्यः ॥ अहिगारो असत्ते, संकष्पादी तु देस संसत्ते । संसज्जिमं तु तहियं, ओदन - सत्तू - दधि- दवाई ॥ वृ- अत एव यस्मिन् देशे त्रसप्राणादिभिः संसक्तं भक्त- पानं न भवति तत्रासंसक्तेऽधिकारः, तस्मिनेव देशे विहरणीयमिति भावः । यस्तु संसक्ते देशे सङ्कल्पादीनि पदानि करोति तस्य प्रायश्चित्तम्, तच्चोत्तरत्र वक्ष्यते । तत्र च 'संसजिमं' संसक्तियोग्यमोदन सक्तु- दधि-द्रवादिकं द्रव्यम मन्तव्यम् । अथ संसक्तदेशे सङ्कल्पादिषु प्रायश्चित्तमाह [भा. ५८६७] [भा. ५८६६] संकप्पे पयभिंदण, पंथे पत्ते तहेव आवने । चत्तारि छच्च लह गुरु, सट्टाणं चेव आवन्ने । वृ- यस्मिन् विषये भक्तादिकं प्राणिभिः संसज्यते तत्र 'सङ्कल्पं ' गमनाभिप्रायं करोति चतुर्लघु, पदभेदं करोति चतुर्गुरु, संसक्तविषयस्य पन्थानं गच्छतः षड्लघु, तं देशं प्राप्तस्य षड्गुरु । तथैव द्वीन्दिरियादेः सङ्घट्टनादिकमापन्नस्य स्वस्थानप्रायश्चित्तम् । तद्यथा द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, त्रीन्द्रियाणां सङ्घट्टनादिषु पदेषु चतुर्गुरुकादारब्धं षड्गुरुके तिष्ठति, चतुरिन्द्रियाणां सङ्घट्टनादिषु षड्लघुकादिकं छेदान्तमिति ॥ [भा. ५८६८] असिवादिएहिं तु तहिं पविट्ठा, संसज्जिमाई परिवज्जयंति । भूइट्ठसंसज्जिमदव्वलंभे, गेण्हंतुवाएण इमेण जुत्ता ॥ वृ- अथाशिवादिभिः कारणैः 'तत्र' संसक्तदेशे प्रविष्टास्ततः 'संसजिमानि' सक्थु दधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति । अथ 'भूयिष्ठानि' प्रभूततराणि संसजिमद्रव्याणि लभ्यन्ते ततोऽमुनोपायेन 'युक्ताः' प्रयत्नपरा गृह्णन्ति ॥ [ भा. ५८६९ ] गमनाऽऽगमने गहणे, पत्ते पडिए य होति पडिलेहा । अगहिय दिट्ठ विवज्रण, अह गिण्हइ जं तमावजे ॥ वृ- भिक्षार्थ दायको मध्ये गमनं कुर्वन् कीटिका मम्डुकीप्रभृतिजन्तुसंसक्तायां भूमौ मा विराधनां कुर्यादिति सम्यग् निरीक्षणीयः । एवमागमने भिक्षाया हस्तेन ग्रहणे च विलोकनीयः । प्राप्ते च दायके तदीयहस्तगतः पिण्डः प्रत्युपेक्षणीयः । पात्रे च पतितः प्रत्युपेक्षितव्यः । ततो यद्यगृहीते त्रसादिकं प्राणजातं पश्यति ततस्तस्मिन् दृष्टे विवर्जयति, न गृह्णातीत्यर्थः । अथ गृह्णाति ततो येन द्वीन्द्रियादिना संसक्तं गृह्णाति तन्निष्पन्नं प्रायश्तित्तमापद्यते ॥ अथ पुनरेवं न प्रत्युपेक्षते तत इमे दोषा [भा. ५८७०] पाणाइ संजमम्मिं, आता मयमच्छि कंटग विसं वा । मूइंग-मच्छि-विच्छुग-गोवालियमाइया उभए । वृ- संयमे त्रसप्राण- पनकादयो विराध्यन्ते । आत्मविराधनायां मृतमक्षिकासम्मिश्रे भुक्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy