________________
३१०
बृहत्कल्प-छेदसूत्रम् -३-५/१५४
कायचउक्काऽऽहारे, कायचउक्कं च पानस्मि ॥
वृ- आहारविधि पूर्वसूत्रे उक्तः, अयं पुनरन्यः पानकस्य विधिप्रतिपादनाय सूत्रारम्भः क्रियते । तथा आहारेऽनन्तरसूत्रे प्राणग्रहणेन त्रसा बीजग्रहणेन वनस्पतिकायाः रजोग्रहणेन पृथिव्यग्निकायौ गृहीताविति कायचतुष्कमुक्तम् । इहापि पानके कायचतुष्कमुच्यते तत्र शीतोदकमप्कायः, उष्णोदकमग्निकायः, नालिकेरपानकादिकं वनस्पतिकायः, दुग्धं त्रसकायः । एवं चत्वारोऽपि काया अत्रापि सम्भवन्तीति । अनेन सम्बन्धेनायातसयास्य व्याख्या- निर्ग्रन्थस्य गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टयान्तः प्रतिग्रहे भक्त - पानमध्ये 'दकं वा' प्रभूताप्कायरूपं 'दकरजो वा' उदकबिन्दुः 'दकस्पर्शितं वा' उदकशीकराः पर्यापतेयुः । तच्चोष्णं भोजनजातं ततो भोक्तव्यं स्यात् । अथ शीतं तद् भोजनजातं ततस्तन्नात्मना भुञ्जीत, नान्येषां दद्यात्, एकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितव्यं स्यादिति सूत्रार्थ ॥ अथ भाष्यम्
[ भा. ५८९८ ] परिमाणे नाणत्तं, दगबिंदु दगरयं वियाणाहि । भरमोदसितं, सेसं तु दगं दव खरं वा ॥
वृ-दकरजःप्रभृतीनां परिमाणकृतं नानात्वम् । तथाहि यस्तावद् दकबिन्दुस्तं दकरजो विजानीहि । ये तु 'सीभराः' पानीयेऽन्यत्र प्रक्षिप्यमाणे उदकसीकरा आगत्य प्रपतन्ति ते दकस्पर्शितम् । 'शेषं तु' यत् प्रभूतमुदकं तद् दकमिति भण्यते । तच्च द्रवं वास्वरं वा भवति इति विषमपदव्याख्यानं भाष्यकृता कृतम् ।। सम्प्रति निर्युक्तिविस्तरः
[ भा. ५८९९ ] एमेव बितियसुत्ते, पलोगणा गिण्हणे य गहिते य । अनभोगा अनुकंपा, पंतत्ता वा दगं देखा ||
वृ- अधस्तनाहारसूत्रादिदं द्वितीयसूत्रमुच्यते । तत्र द्वितीयसूत्रेऽप्येवमेव विधिर्द्रष्टव्यः । ग्रहणे गृहीते च पानके 'प्रलोकना' प्रत्युपेक्षणा पिण्डस्येव मन्तव्या । तच्च उदकं त्रिभि कारणैर्दद्यात् । तद्यथा- "अनभोगा" इत्यादि । अनाभोगेन काचिदगारी एकत्रैव काञ्जिकं पानीयं चास्तीति कृत्वा 'काञ्जिकं दास्यामि' इति बुध्या विस्मृतिवशाज्जलं दद्यात् । अनुकम्पया वा ग्रीष्मसमये तृषाक्रान्तं साधुं दृष्टवा ' शीतलं जलं पिबेद्' इति बुध्या काचिदुदकं दद्यात् । प्रान्ततया प्रत्यनीकतया वा काचिद् भिक्षुकाद्युपासिका 'एतेषामुदकं न कल्पते अतो व्रतभङ्गं करोमि इति बुध्या साधूनामुदकं दद्यात् ।। अथात्रैव विधिमाह
[ भा. ५९०० ] सुद्धम्मिय गहियम्मी, पच्छा नाते विगिंचए विहिणा । मीसे परूविते उन्ह- सीतसंजोग चउभंगो ॥
वृ-यदि तदुदकं 'शुद्धे' रिक्ते प्रतिग्रहे गृहीतं 'पश्चाच्च' ग्रहणानन्तरं ज्ञातम्, यथा-उदकमिदम्; ततः ‘विधिना' वक्ष्यमाणेन 'विविञ्चयात्' परिष्ठापयेत् । "मीसे"त्ति मिश्रं नाम यत्र प्रतिग्रहे पूर्वमन्यद् द्रवं गृहीतं पश्चाच्च पानीयं पतितम् एतद् मिश्रमुच्यते, तत्र 'मिश्र' उष्णशीतसंयोगे चतुर्भङ्गयाः प्ररूपणा कर्तव्या ।। तत्र रिक्ते प्रतिगृहे यद् गृहीतं तस्यायं परिष्ठापनाविधिःतत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे ।
[ भा. ५९०१]
सपडिग्गहं विगिंचइ अपरिस्सव उल्लभाणे वा ॥
वृ-यतो भाजनादविरतिकया दत्तं तत्रैव तदुदकं प्रक्षिपति । अथ सा तत्र प्रक्षेप्तुं न ददाति तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org