________________
उद्देशकः ५, मूलं-१५४, [भा. ५९०१]
३११
एवमलभ्यमाने मा पृच्छ्यते-कुतस्त्वयेदमानीतम्? । ततो यस्मात् कूप-सरःप्रभृतेराकरादानीतं तस्य समीपे गत्वा परिष्ठापनिकानियुक्तिभणितेन विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि क्षीरद्रुमस्य च्छायायामेकान्ते स्थापयति । अथ प्रतिग्रहोऽन्यो न विद्यते ततो यद् अपरिश्रावि घटादिकमाईजलभावितंभाजनंतत्र प्रक्षिपति॥अथपूर्वमन्यद्रव्ये गृहीतेपतितंततइयंचतुर्भङ्गी[भा.५९०२] दव्वं तु उण्हसीतं, सीउण्हं चेव दो वि उण्हाई।
दुनि वि सीताइअचाउलोद तह चंदन घते य॥ वृ-इह द्रव्यं चतुर्धा, तद्यथा-किञचिदुष्णं शीतपरिणामम् १ अपरं शीतमुष्णपरिणामम् २ अन्यदुष्णमुष्णपरिणामम् ३ अपरं शीतं शीतपरिणामम् ४ । अथासनत्वात् प्रथमं चतुर्थभङ्गं व्याख्याति-“चाउलोद" इत्यादि।तण्डुलोदक-चन्दन-घृतादीनिद्रव्याणि 'शीतानि' शीतपरिणामानि । तृतीयभङ्गमाह[भा.५९०३] आयाम अंबकंजिय, जति उसिणानुसिण तो विवागे वी।
उसिणोदग-पेज्जाती, उसिणा वितणुंगता सीता ।। वृ-आयामा-ऽम्लकालिकादीनिद्रव्याणियधुष्णानिततो विपाके परिणामेऽपि तान्युष्णान्येव भवन्तीति कृत्वा तृतीयो भङ्गः । यानि पुनरुष्णोदक-पेयादीनि द्रव्याणि तान्युष्णान्यपि 'तनु' शरीरंगतानि शीतानि भवन्तीत्यनेन प्रथमो भङ्गो व्याख्यातः ॥अथ द्वितीयभङ्गं व्याचष्टे[भा.५९०४] सुत्ताइ अंबकंजिय-घनोदसी-तेल्ल-लोण-गुलमादी।
सीता वि होति उसिणा, दुहतो वुण्हा व ते होंति ॥ वृ-सुत्तं-मदिराखोलः देशविशेषप्रसिद्धो वा कश्चिद् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि, यच्च अम्लं काजिकम्, अम्ला च धनविकृति, अम्लं च उदश्चित्-तक्रम्, यच्च तैलं लवणं गुडोवा, एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभङ्गेऽवतरन्ति । अथ तान्युष्णानि ततः 'उष्णानि' उष्णपरिणामानीति तृतीये भङ्गे प्रतिपत्तव्यानीति ॥
आह कतिविधः पुनः परिणामः? इति उच्यते[भा.५९०५] परिणामो खलु दुविहो, कायगतो बाहिरो य दव्वाणं ।
सीओसिणत्तणं पिय, आगंतु तदुब्भवं तेसिं॥ वृ-द्रव्याणां परिणामः द्विविधः-कायगतो बाह्यश्च । तत्र कायेन-शरीरेणाहारितानां द्रव्याणां यः शीतादिकः परिणामः स कायगतः, यः पुनरनाहारितानां स बाह्यः । स च बाह्यः परिणामः शीतो वा स्यादुष्णो वा । तदपि च शीतोष्णत्वं द्रव्यणां द्विधा-आगन्तुकंतदुद्भवं च ॥
उभयमपि व्याचष्टे[भा.५९०६] साभाविया व परिणामिया व सीतादतो तु दव्वाणं ।
असिरससमागमेण उ, नियमा परिणामतो तेसि ।। वृ-स्वाभाविका वा परिणामिका वा शीतादयः पर्याया द्रव्याणां भवन्ति । तत्र स्वाभाविका यथा-हिमं स्वभावशीतलम्, तापोदकं स्वभावादेवोष्णम् । परिणामिकास्तु पर्याया द्रव्यान्तरादिबाह्यकारणजनिताः, तथा चाह-“असरिस" इत्यादि, असशेन वस्तुना सह यः समागमःमीलकस्तेन नियमात् 'तेषां' द्रव्याणां परिणामः' पर्यायान्तरगमनं भवति, यथा-उदकादेः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org