________________
३१२
बृहत्कल्प-छेदसूत्रम् -३-५/१५४ शीतलस्याप्यग्नितापेन आदित्यरश्मितापेन वा उष्णतागमनम् ॥ एतदेव सुव्यक्तमाह[भा.५९०७] सीया वि होंति उसिणा, उसिणा विय सीयगंपुनरुति।
दव्वंतरसंजोगं, कालसभावंच आसज्ज ।। वृ-द्रव्यान्तरेण-अग्नि-जलादिना सयोग-सम्बन्धंकालस्य च-ग्रीष्म-हेमन्तादेः स्वभावमासाद्य शीतान्यपि द्रव्याण्युष्णानि भवन्तिउष्णान्यपिचशीततांपुनरुपयान्ति॥एषआगन्तुकः परिणामो मन्तव्यः । अयं पुनस्तदुद्भवः [भा.५९०८] तावोदगंतु उसिणं, सीया मीसा य सेसगाआवो।
एमेव सेसगाई, रूवीदव्वाइंसव्वाइं॥ वृ-तापोदकं स्वभावादेवोष्णम्, 'शेषा आपः' अकायद्रव्याणि शीतानि 'मिश्राणि वा' शीतोष्णोभयस्वभावानि मन्तव्यानि । एवमेव शेषाणि' अप्कायविरहितानि यानि सर्वाण्यपि रूपिद्रव्याणि तानि कानिचिदुष्णानि यथा अग्नि, कानिचित् शीतानि यथा हिमम्, कानिचित्तु शीतोष्णानि यथा पृथिवी॥ [भा.५९०९] एएण सुत्त न गतं, जो कायगताण होइ परिणामो।
सीतोदमिस्सियम्मि उ, दव्वम्मि उमग्गणा होति ॥ वृ-य एष 'कायगतानाम्' आहारितानां द्रव्याणां परिणाम उक्तो नैतेन सूत्रं गतम्, किन्तु 'शीतोदकमिश्रितेन' सचित्तोदकमिश्रेण द्रव्येणेहाधिकारः। तत्र चेयंमार्गणा भवति॥ [भा.५९१०] दुहतो थोवं एक्वेक्कएण अंतम्मि दोहि वी बहुगं।
भावुगमभावुगं पि य, फासादिविसेसितंजाणे।। वृ-इह पूर्वगृहीते द्रव्ये यदा शीतोदकं पतति तदा इयं चतुर्भङ्गी-“दुहतो थोवं" ति स्तोके स्तोकं पतितमिति प्रथमो भङ्गः । “एक्कक्कएण"त्ति स्तोके बहुकं पतितमिति द्वितीयः, बहुनि स्तोकं पतितमिति तृतीयः । “अंतम्मि दोहि वी बहुगं" ति बहुनि बहुपतितमिति चतुर्थ । यद् द्रव्यं पतति यत्र वा पतति तद् भावुकम भावुकं वा स्पर्शादिविशेषितं जानीयात् । किमुक्तं. भवति?-स्पर्श-रस-गन्धैरुत्कटतयायद्अपराणि द्रव्याणि स्वस्पर्शादिभिर्भावयति-परिणामयति तद्भावुकम्, तद्विपरीतमभावुकम्।येचस्तोक-बहुपदाभ्यांचत्वारोभङ्गाः कृतास्तेषु प्रत्येकममी चत्वारो भङ्गा भवन्ति-उष्णे उष्णं पतितम् १ उष्णे शीतं पतितम् २ शीते उष्णं पतितम् ३ शीते शीतं पतितम् ४॥ एतेषु विधिमाह[भा.५९११] चरमे विगिंचियव्वं, दोसुतु मज्झिल्ल पडिए भयणा उ ।
खिप्पं विविंचियव्वं, मायविमुक्केण समणेणं॥ वृ-चरमं नाम-यत् शीते शीतं पतितम् तत् पुनः स्तोकं पतितं बहुके वा बहुकं पतितं भवेद् उभयमपिक्षिप्रं विवेक्तव्यं परिष्ठापयितव्यम्। 'द्वयोस्तुमध्यमयोः भङ्गयोः' 'उष्णेशीतंपतितम्, शीते उष्णं पतितम्' इतिलक्षणयोर्वक्ष्यमाणा भजना भवति । यः पुनरुष्णे उष्णं पतितमिप्रथमो भङ्गः तत्र तत्क्षणादेव सचित्तभावो नापगच्छतीति कृत्वा क्षिप्रमेव मायाविमुक्तेन श्रमणेन तद् विवेचनीयम् । मायावमुक्तग्रहणेनेदं ज्ञापयति-शीघ्रं परिष्ठापयितुकामोऽपि यावत् स्थण्डिलं गच्छति तावत् तद् अचित्तीभूतं ततः परिभुढे न परिष्ठापयति । अथ मातृस्थानेन मन्दं मन्दं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org