________________
उद्देशक ः ५, मूलं-१५४, [भा. ५९११]
३१३ गच्छतिचिन्तयतिच-तिष्ठतुतावत् पश्चात्परिणतंपरिभोक्ष्ये; एवंमायांकुर्वतः स्थण्डिलादर्वाक् परिणतमपि न कल्पते॥अथ मध्यमभङ्गद्वये भजनामाह[भा.५९१२] थोवंबहुम्मि पडियं, उसिणे सीतोदगं न उज्झंती।
हंदि हुजाव विगिचति, भावेज्जति तावतं तेनं ॥ वृ-बहुके पूर्वगृहीतेस्तोकंपतितमित्यत्र यदिउष्णे बहुनिशीतोदकं स्तोकंपतितंतदानोज्झन्ति। कुतः ? इत्याह-'हन्दि' इत्युपप्रदर्शने, यावद् विविनक्ति तावत् 'तत्' स्तोकं शीतोदकं 'तेन' बहुकेनोष्णेन 'भाव्यते' परिणतं क्रियते, ततः परिभोक्तव्यं तदिति भावः॥ [भा.५९१३] जं पुन दुहतो उसिणं, सममतिरेगं व तक्खणा चेव ।
मझिल्लभंगएसुं, चिरं पि चिढ़े बहुं छूढं ॥ वृ- यत् पुनर्द्विधाऽप्युष्णम्-उष्णे उष्णं पतितमित्यर्थः तत् परिणामतः परस्परं 'समं' तुल्यं भवेद् ‘अतिरिक्तं वा' द्वयोरेकतरमधिकतरं तत्रापि तत्क्षणादेव सचित्तभावो नापगच्छतीति वाक्यशेषः । यौ तु मध्यमौ द्वौ भङ्गौ उष्णे शीतं पतितम्, शीते वा उष्णं पतितम्' इति लक्षणी तयोः स्तोके बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठेत्, ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम्।।
अथोदकस्यैव परिणमनलक्षणमाह[भा.५९१४] वन-रस-गंध-फासा, जह दव्वे जम्मि उक्कडा होति।
तह तह चिरं न चिट्ठइ, असुभेसु सुभेसुकालेणं॥ वृ-यस्मिन् द्रव्ये यथा यथा वर्ण-गन्ध-रस-स्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन द्रव्येण सह मिश्रितमुदकं चिरंन तिष्ठति, क्षिप्रंक्षिप्रतरं परिणमतीति भावः । किमविशेषेण? न इत्याह-येऽशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रंपरिणमति, येतुशुबा वर्णादयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः॥अत्रेदं निदर्शनम्[भा.५९१५] जो चंदने कडुरसो, संसट्ठजले य दूसणा जा तु।
सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति ॥ वृ-इह तण्डुलोदकंचन्दनेन क्वापिमिश्रितंतत्र च चन्दनस्य यः कटुको रसःसतण्डुलोदकस्य शस्त्र परं यस्तदीयः स्पर्श शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण तत् परिणमति । एवं संसृष्टजलस्यापिया 'दूषणा' अम्लरसतासाउदकस्य शस्त्रस्पर्शस्तुशीतलत्वादुपग्रहकारीअतश्चिरेण परिणमति॥ [भा.५९१६] घयकिट्ट-विस्सगंधा, दगसत्यं मधरु-सीतलं न घतं।
___ कालंतरमुप्पन्ना, अंबिलया चाउलोदस्स॥ वृ-घृतस्य सबन्धी यः किट्टो यश्च विस्र गन्धः तावुदकस्य शस्त्रम्, यत् तुरसेन मधुरं स्पर्शेन च शीतलं घृतं तद् उपग्रहं करोतीति शस्त्र न भवति, अतश्चिरात् परिणमति । तथा कुक्कुसैःअतिगुलिकैस्तण्डुलोदकस्याम्लता या कालान्तरेणोत्पन्ना साऽप्युदकस्य शस्त्र भवति॥ [भा.५९१७] अव्वुक्कंते जति चाउलोदए छुब्भते जलं अन्नं ।
दोनिवि चिरपरिणामा, भवंति एमेव सेसा वि॥ वृ-'अव्युत्क्रान्ते' अपरिणते तण्डुलोदके यद् ‘अन्यद्' अपरं सचित्तं जलं प्रक्षिप्यते ततो वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org