________________
३१४
बृहत्कल्प-छेदसूत्रम् -३-५/१५४
अप्युदके चिरपरिणामे भवतः । 'शेषाण्यपि ' यानि संसृष्टपानक- फलपानकादीनि तैष्वपि सचित्तोदकं यदि प्रक्षिप्यते ततः 'एवमेव ' तान्यपि चिरात् परिणमन्तीति ॥ अथ द्वितीयपदमाह[भा. ५९१८] थंडिल्लस्स अलंभे, अद्धाणोम असिवे गिलाणे वा । सुद्धा अविविंचंता, आउट्टिय गिण्हमाणा वा ॥
वृ- स्थण्डिलस्यालाभेऽपरिणतपानकमपरिष्ठापयन्तोऽपि शुद्धाः । अध्वा ऽवमा-ऽशिवग्लानत्वेषु वा कारणेषु पानकस्य दुर्लभतायाम् 'अविविञ्चन्तः' अपरिष्ठापयन्तः 'आकुट्टिकया वा' जानन्तोऽपि गृह्णन्तः शुद्धाः ॥
मू. (१५५) निग्गंथीए रातो वा वियाले वा उच्चारं वा पावणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरं इंदियजायं परामुसेज्जा, तं च निग्गंधी साइजेज्जा, हत्थकम्पपडिसेवणप्पत्ता आवज्जइ मासियं अनुगघाइयं ॥
मू. (१५६) निग्गंथीए रातो वा विद्याले वा उच्चारं वा पासवणं वा विगिंचमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजातीए वा पक्खिजातीए वा अन्नयरंसि सोयंसि ओगाहिज्जा, तं च निग्गंथी साइजेजा, मेहुणपडिसेवणप्पत्ता आवज्जइ चाउम्मासियं अनुग्घाइयं ॥
वृ- अस्य सूत्रद्वयस्य सम्बन्धमाह
[भा. ५९१९] पढमिल्लुग-ततियाणं, चरितो अत्थो वताण रक्खट्ठा । मेहुणरक्खट्ठा पुन, इंदिय सोए य दो सुत्तां ॥
वृ- 'प्रथम- तृतीययोर्व्रतयोः ' प्राणातिपाता ऽदत्तादानविरतिलक्षणयो रक्षणार्थं तीर्थकरानुज्ञातशीतोदकपरिभोगे तयोर्भङ्गो मा भूदिति कृत्वा पूर्वसूत्रस्यार्थ 'चरितः' गतः, भणित इत्यर्थः । सम्प्रति तु मैथुनव्रतरक्षणार्थमिन्द्रियविषय-श्रोतोविषये द्वे सूत्रे आरभ्येते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- निर्ग्रन्थ्याः रात्रौ वा विकाले वा उच्चारंवा प्रश्रवणंवा विविञ्चन्त्य वा विशोधयन्त्या वा अन्यतरः 'पशुजातीयो वा' वानरादिकः 'पक्षिजातीयो वा' मयूरादिकोऽन्यतरदिन्द्रियजातं 'परामृशेत्' स्पृशेत्, सा च निर्ग्रन्थी तं च स्पर्शं 'स्वादयेत्' 'सुन्दरोऽस्य स्पर्श' इत्यनुमन्येत, हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते मासिकमनुद्धातिकं स्थानम् । इह निर्ग्रन्थीनां परिहारतपो न भवतीति कृत्वा ‘“परिहारट्ठाणं" ति पदं न पठनीयम् ।। एवं द्वितीयसूत्रमपि व्याख्येयम् । नवरम्अन्यतरस्मिन् ‘श्रोतसि' योन्यादौ वानरादिरवगाहेत, सा च मैथुनप्रतिसेवनप्राप्ता यदि स्वादयेत् ततश्चतुर्गुरुकमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः
[भा. ५९२०] वानर छगला हरिणा, सुणगादीया य पसुगणा होंति । बरहिण चासा हंसा कुक्कुडग-सुगादिणो पक्खी ।।
वृ-वानराः छगला हरिणाः शुनकादयश्च पशुगणा मन्तव्याः । बर्हिणश्चाषा हंसाः कुक्कुटशुकादयश्च पक्षिण उच्यन्ते ॥
[ भा. ५९२१] जहियं तु अनाययणा, पासवणुच्चार तहि पडिक्कुडं । लहुगो य होइ मासो, आणादि सती कुलघरे वा ।।
यत्रैते पशुजातीयाः पक्षिजातीयाश्च प्राणिनः सम्भवन्ति तद् अनायतनमुच्यते, तत्रन निर्ग्रन्थीनामवस्थानं प्रश्रवणोच्चारपरिष्ठापनं च पतिक्रुष्टम्। यदि कुर्वन्ति तदा लघुमासः, आज्ञादयश्च
वृ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International