________________
उद्देशक: ५, मूलं- १५६, [भा. ५९२१]
दोषाः । “सईकुलघरे व "त्ति भुक्तभोगिन्याश्च स्मृतिकरणं कुलगृहे वा भूयस्तासां बान्धवादिभिर्नयनं क्रियते ॥ इदमेव व्याचष्टे
[ भा. ५९२२ ] भुत्ता - Sभुत्तविभासा, तस्सेवी काति कुलघरे आसि । बंधव तप्पक्खी वा, दवण लयंति लज्जाए ॥
कृ- भुक्ताऽभुक्तविभाषा, भुक्तभोगिन्याः स्मृतिकरणमभुक्तभोगिन्याश्च कौतुकमुत्पद्येतेत्यर्थः । तथा "तस्सेवि "त्ति गृहवासे तैः - पशुजातीयादिभिः प्रतिसेविता काचित् कुलगृहे आसीत् सा तान् दृष्ट्वा स्मृतपूर्वरता प्रतिगमनादीनि कुर्यात् । यद्वा तासां बान्धवास्तत्पाक्षिका वा सुहृदस्ताद्दशेऽनायतने स्थितां तमार्थिकां दृष्ट्वा लज्जया भूयः स्वगृहमानयन्ति ॥ किञ्च -
३१५
[भा. ५९२३] आलिंगनादिगा वा, अनिहुय-मादीसु वा निसेविज्जा । एरिसगाण पवेसो, न होति अंतेपुरेसुं पि ॥
वृ- ते पशुजातीयादयस्तां संयतीमालिङ्गेयुः, सा वा संयती तानालिङ्गेत्, एवमालिङ्गनादयो दोषा भवेयुः । अपि च एते वानरादयः स्वभावादेवानिभृताः कन्दर्पबहुला मायिनश्च भवन्ति ततस्तैरनिभृत- मायिभि सा कदाचिदात्मानं निषेवयेत् । ईशानां च पशु-पक्षिजातीयानां प्रवेशो राज्ञोऽन्तःपुरेष्वपि न भवति' न दीयते । कारणे पुनरन्यस्या वसतेरभावे तत्रापि तिष्ठेयुः ॥ [भा. ५९२४] कारणे गमने वि तहिं, विविंचमाणीए आगतो लिहेज्जा ।
गुरुगो य होति मासो, आणाति सती त स च्चेव ॥
वृ- कारणे तत्रापि स्थितानामुच्चारभूमौ प्रश्रवणभूमौ वा गत्वा 'विविञ्चन्त्याः' परिष्ठापयन्त्या वानरादि समागच्छेत्, आगतश्च तामालिङ्गेत्, सा च यदि 'लिह्यात्' तं स्पर्शं स्वादयेत् ततो गुरुमासः आज्ञादयश्च दोषाः, स्मृतिश्च सा चैव पूर्वोक्ता भवति ।।
अथ न स्वादयति ततः सा शुद्धा, यतना चेयं तत्र कर्तव्या[भा. ५९२५ ] वंदेण दंडहत्था, निग्गंतुं आयरंति पडिचरणं । पविसंते वारिंति य, दिवा वि न उ काइयं एक्का ॥
वृ- 'वृन्देन' द्वित्र्यादिव्रतिनीसमुदायेन दण्डकहस्ता निर्गच्छन्ति, निर्गत्य च कायिकादिकमाचरन्ति, वानरादीनां च प्रतिचरणं कुर्वन्ति । ये तत्राभिद्रवन्ति तान् दण्डकेन ताडयन्ति, प्रतिश्रये च प्रविशतो निवारयन्ति । दिवाऽपि च कायिकाभूमिम् 'एका' एकाकिनी न गच्छति ॥ व्याख्यामिन्द्रियसूत्रम् । सम्प्रति श्रोतः सूत्रं व्याचष्टे
[भा. ५९२६]
एवं तु इंदिएहिं सोते लहुगा य परिणए गुरुगा । बितियपद कारणम्मिं, इंदिय सोए य आगाढे ॥
Jain Education International
वृ- एवं तावद् इन्द्रियसूत्रे प्रायश्चित्तं विधिश्चोक्तः । यत्र तु पशुजातीयादयः श्रोतोऽवागहनं कुर्वन्ति तत्र तिष्ठन्तीनां चतुर्लघु । तेषु श्रोतोऽवगाहनं कुर्वाणेषु यदि सा सुन्दरमिदमिति परिणता ततश्चतुर्गुरु । द्वितीयपदे आगाढे कारणे इन्द्रिये श्रोतसि च परामर्शं स्वादयेदपि । इदमुत्तरत्र भावयिष्यते ॥ कारणे एकाकिन्यास्तिष्ठन्त्यास्तावदियं यतना
[ भा. ५९२७] गिहिणिस्सा एगागी, ताहं समं निंति रत्तिमुभयस्सा । दंडगसारक्खणया, वारिंति दिवा य पेल्लंते ।।
For Private & Personal Use Only
www.jainelibrary.org