SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ बृहत्कल्प - छेदसूत्रम् - ३-४/१२० स वृ- एतासां स्त्रीणामभावे, योऽगारः 'संज्ञातकः' तस्याः स्वजनः, स च मातुल-पुत्रादिरपि स्याद् अतस्तत्प्रतिषेधार्थमाह- 'नालबद्ध - ' वल्लीबद्धः, पित-भ्रात-पुत्रप्रभृतिक इत्यर्थः, उत्थापनादिकं तस्याः कार्यते। तदभावे श्रमणोऽपि यस्तस्या नालबद्धो असमानवयाः । तस्यासति अनाबद्धोऽपि यो गृही वयसा अतुल्यः स कार्यते ॥ [भा. ५२४७] दोत्रि वि अनालबद्धा उ, जुजंती एत्थ कारणे । किढी कन्ना विमज्झा वा, एमेव पुरिसेसु वि ॥ वृ- नालबद्धाभावे 'द्वावपि' स्त्री-पुरुषावनालबद्धपि 'कारणे' आगाढे उत्थापनादिकं कारयितुं युज्यन्ते । तत्रापि प्रथमं “किढि” त्ति स्थविरा स्त्री कार्यते । तदभावे कन्यका । तदप्राप्तौ मध्यमा। एवं पुरुषेष्वपि वक्तव्यम् ।। अमुमेवार्थं पुरातनगाथया व्याख्यानयति 4 [भा. ५२४८ ] असई माउवग्गे, पिता व भाता व से करेज्जाहि । दोह वि तेसिं करणं, जति पंथे तेन जतणाए ॥ वृ- मातृवर्गो नाम-स्त्रीजनः तस्याभावे यः तस्याः संयत्याः सम्बन्धी पिता वा भ्राता वा स उत्थापनादिकं करोति । “दोण्ह वि” इत्यादि, द्वयोरपि तयोः करणम्, किमुक्तं भवति ? - पथि वर्तमानायाः प्राप्ताया वा अथवा निजकाया वा अनिजकाया वा अनन्तरोक्तविधिना तस्या उत्थापनादिकं कर्तव्यम् । यदा च पथि ग्लाना संवृत्ता तदा स्वयमेव 'यतनया' गोलकञ्चुकतिरोधानरूपया तस्याः परिकर्म करोति । अथवा “दोण्ह वि"त्ति विभक्तिव्यत्ययाद् द्वाभ्यामपि द्रष्टव्यम् । तत्रायमर्थः [ भा. ५२४९] थी पुरिस नालऽनाले सपक्ख परपक्ख सोयऽसोये य । गाढम्म उज्जे, करेति सव्वेहि जतणाए । वृ- आगाढे कार्ये स्त्रिया वा पुरुषेण वा नालबद्धेन वा अनालबद्धेन वा स्वपक्षेण वा परपक्षेण वा शौचवादिना वाऽशौचवादिना वा सर्वैरपि यतनया कारयति ।। - [भा.५२५०] पंथम्मि अपंथम्मि व, अन्नस्सऽ सती सती वऽ कुणमाणो । अंतरि कंचुकादी, सचिय जतना तु पुव्वत्ता ॥ वृ- पथि अपथि वा वर्तमानाया अन्यस्याभावे यद्वा विद्यतेऽन्यः परं स भणितोऽपि न करोति ततः स्वयमेव कुर्वन् गोपालकञ्चुकादिभिरन्तरितः करोति । अत्र च सैव पूर्वोक्ता यतना मन्तव्या या तृतीयोद्देशके प्रथमसूत्रे ग्लानसंयत्याः प्रतिचरणे प्रतिपादिता ॥ एवं तावदेकाकिनः साधोर्विधिरुक्तः । अथ गच्छे तमेवाह [मा. ५२५१] गच्छम्मि पिता पुत्ता, भाता वा अज्जगो व नत्तू वा । एतेसिं असतीए, तिविहा वि करेति जयणाए । वृ- गच्छे वसतां यदि तस्याः पिता पुत्रो भ्राता वा 'आर्यको वा' पितामहादि 'नप्ता वा ' पौत्रोऽस्ति ततः संयतीनामपरस्य वा स्त्रीजनस्याभावे तैः कर्त्तव्यम् । 'एतेषां' पितृप्रभृतीनामभावे 'त्रिविधा अपि' स्थविर-मध्यम-तरुणाः साधवः 'यतनया' गोपालकञ्चुकतिरोहिताः कुर्वन्ति ।। इदं गच्छे प्राप्ताया अभिहितम्, अथ पथि वर्तमानाया उच्यते [भा. ५२५२] Jain Education International दोन वि वयंति पंथं, एक्तरा दोनि वा न वञ्चंती । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy