________________
उद्देशक
: ४, मूलं- १२०, [भा. ५२४१ ]
परिष्वजने सङ्क्रामेत् । गृहस्थस्य चपरिष्वजनकरणे पश्चात्कर्मदोषो भवेत् ॥ इदमेव पश्चार्द्ध व्याचष्टे
[भा. ५२४२] कोढ खए कच्छु जरे, अवरोप्पर संकमंते चउभंगो । इत्थीणाति सुहीण य, अचियत्तं गिण्हणादीया ॥
वृ- कष्ठ-क्षत-कच्छू-ज्वरप्रभृतिके रोगे परस्परं सङ्क्रामति चतुर्भङ्गी भवति संयतस्य सम्बन्धी कुष्ठादि संयत्याः सङ्क्रामति १ संयत्याः सम्बन्धी वा संयतस्य सङ्क्रामति २ द्वयोरप्यन्योन्यं सङ्क्रामति ३ द्वयोरपि न सङ्क्रामति ४ । अत्राद्यभङ्गत्रये रोगसङ्क्रमणकृताः परितापनादयो दोषाः । तथा " इत्थी" इत्यादि, तस्याः स्त्रियः सम्बन्धिनो ये ज्ञातयो ये च सुहृदस्तेषामप्रीतिकं भवति- किमयं श्रमणोऽस्मत्सम्बन्धिनीमित्थमालिङ्गति ? इति । ततश्च ग्रहणाऽऽकर्षणादयो दोषाः ॥ गिहिएसु पच्छकम्मं, भंगो ते चेव रोगमादीया । संजय असंखडादी, भुत्ता ऽभुत्ते य गमनादी ॥
[भा. ५२४३]
वृ-गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, 'संयतेन स्पृष्टोऽहम्' इति कृत्वा गृहस्थः स्नानं कुर्यादिति भावः । अविरतिकायाः परिष्वङ्गेभावसम्बन्धोऽपि जायेत, ततश्च 'भङ्गः' ब्रह्मचर्यविराधना भवेत्, रोगसङ्क्रमणादयश्च त एव दोषाः । संयतं तु परिष्वजतस्तेन सहासङ्घडादयो दोषाः । भुक्तभोगिनश्च स्मृतिकरणेनाभुक्तभोगिनः कौतुकेन प्रतिगमनादयो दोषाः । एवं तावन्निष्कारणेऽग्लानायाश्चोक्तम् ॥
[भा. ५२४४ ] एमेव गिलाणाए, सुत्तऽफलं कारणे तु जयणाए । कारणे एग गिलाणा, गिहिकुल पंथे व पत्ता वा ।।
१७७
वृ- एमवमेव ग्लानाया अपि संयत्याः परिष्वजने क्रियमाणे दोषजालं मन्तव्यम् । परः प्राहनन्वेवं सूत्रमफलं प्राप्नोति, तत्र हि परिष्वजनमनुज्ञातं स्वादनं पुनः प्रतिषिद्धम् । सूरिराह- कारणे यतनया क्रियमाणे परिष्वजने सूत्रमवतरति । कथं पुनस्तस्य सम्भवः ? इत्याह- कारणे काचिदार्यिका " एग "त्ति एकाकिनी संवृत्ता सा च पश्चाद् ग्लानीभूता, “गिहिकुल "त्ति गृहस्थकुलानिश्रया सा स्थिता, अथवा “गिहिकुल'' त्ति सा तस्यैककुलसमुद्भूता भगिन्यादिसम्बन्धेन निजका गृहस्थतां परित्यज्य तदन्तिके प्रव्रजिता, सा चानीयमाना पथि वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता ॥ तत्रेयं यतना[भा. ५२४५]
माता भगिनी धूतां, तधेव सन्नातिगा य सड्डी य । गारत्थि कुलिंगी वा असोय सोए य जयणाएं ॥
वृ-तस्याः संयत्या या माता भगिनी दुहिता वा तया तस्या उत्थापनादिकं कार्यते । एतासामभावे या तस्याः 'संज्ञातका' भागिनेयी-पौत्रीप्रभृतिका तया कार्यते । तस्या अभावे श्राद्धिकया । तदभावे गृहस्थया यथाभद्रिकया कुलिङ्गिन्या वा कार्यते । तास्वपि प्रथममशौचवादिनीभि, ततः शौचवादिनीभिरपि यतनया कारयितव्यम् ॥
[भा. ५२४६ ]
यासिं असतीए, अगार सन्नाय नालबद्धो य ।
समणी व नालबद्धो, तस्सऽसति गिही अवयतुल्लो ॥
2012
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org