________________
४०२
बृहत्कल्प-छेदसूत्रम् -३-६/२१४ मुक्त्वा ज्ञातव्यम्, तत्र द्वितीयपदं न भवतीत्यर्थः शेषेषु तु कौकुचिकादिषु यद् यत्र क्रमते तत् तत्रावतारणीयम् ॥ एतदेव भावयति[भा.६३३६] कडिवेयणमवतंसे, गुदपागऽरिसा भगंदलं वा वि ।
गुदखील सक्करा वा, न तरति बद्धासनो होउं॥ वृ-कटिवेदना कस्यापि दुःसहा, 'अवतंसो वा पुरुषव्याधिनामको रोगो भवेत्, एवं गुदयोः पाकोऽसि भगन्दरं गुदकीलको वा भवेत्, 'शर्करा' कृच्छ्रमूत्रको रोगः स वा कस्यापि भवेत्, ततो न शक्नोति बद्धासनः 'भवितुं' स्थातुम् । एवंविधे ग्लानत्वेऽभीक्ष्णपरिस्पन्दनादिकं स्थानकौकुचिकत्वमपि कुर्यात् ॥ [भा.६३३७] उव्वत्तेति गिलाणं, ओसहकजे व पत्थरे छुभति।
वेवति य खित्तचित्तो, बितियपदं होति दोसुंतु॥ वृ-ग्लानम् 'उद्वर्तयति' एकस्मात् पार्श्वतो द्वितीयस्मिन् पार्वे करोति, ‘औषधकार्ये वा' औषधदानहेतोस्तमेव ग्लानमन्यत्र सङ्क्राम्य भूयतत्रैवस्थापयति, यस्तु क्षिप्तचित्तः स परवशतया 'प्रस्तरान्' पाषाणान् क्षिपति वेपते वा, चशब्दात् सेण्टितं मुखवादित्रादिकं वा करोति । एतद् द्वितीयपदं यथाक्रमं 'द्वयोरपि' शरीर-भाषाकौकुचिकयोर्भवति ॥ मौखरिकत्वेऽपवादमाह[भा.६३३८] तुरियगिलाणाहरणे, मुहरित्तं कुन्ज वा दुपक्खे वी।
ओसह विजं मंतं, पेल्लिज्जा सिग्घगामित्ति। वृ-त्वरितंग्लानिमित्तमषधादेः आहरणे कर्तव्ये द्विपक्षे संयतपक्षेसंयतीपक्षेच मौखरिकत्वं कुर्यात् । कथम्? इत्याह-एष शीघ्रगामीअत औषधमानेतुं विद्यां मन्त्रं वा प्रयोक्तुं “पेल्लिज"त्ति प्रेर्यताम्, व्यापार्यतामित्यर्थः॥ [भा.६३३९] अच्चाउरकज्जे वा, तुरियं वन वा वि इरियमुवओगो।
विजस्स वा विकहणं, भए व विस सूल ओमज्जे ।। वृ-अत्यातुरस्यवा-आगाढग्लानस्य कार्येत्वरितं गच्छेत्, ‘नवाऽपि नैवेर्यायामुपयोगं दद्यात्, वैद्यस्य वा कथनं' धर्मकथां कुर्वन् गच्छेद्येन स आकृतः सम्यग ग्लानस्य चिकित्सां करोति, भये वा मन्त्रादिकं परिवर्तयन् गच्छति, विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन्, विषविद्यावानवगृहीतातापरिवर्तयन्गच्छति,शूलंवा कस्यापिसाधोरुद्धावतितदपमार्जयन् गच्छति। [मा.६३४०] तितिणिया वि तदट्टा, अलब्ममाणे विदव्वतितिणिता।
वेज्जे गिलाणगादिसु, आहारुवधी य अतिरित्तो॥ वृ- तस्य-ग्लानस्य उपलक्षणत्वाद् आचार्यादेश्वार्थाय 'तिन्तिणिकताऽपि' स्निग्धमधुराहारादिसंयोजनलक्षणाकर्तव्या। अलभ्यमाने वाग्लानप्रायोग्ये औषधादौ 'द्रव्यतिन्तिणिकता' 'हा! कष्टं न लभ्यते ग्लानयोग्यमत्र' इत्येवंरूपाकार्या । इच्छालोभे पुनरिदं द्वितीयपदम्-वैद्यस्य दानार्थं ग्लानार्थं वाआहार उपधिश्चातरिक्तोऽपि ग्रहीतव्यः,आदिशब्दाद् आचार्यादिपरिग्रहः, गणचिन्तको वा गच्छोपग्रहहेतोरतिरिक्तमुपधिंधारयेत्॥एवं यावद् निदानपदंवर्जयित्वाशेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम् । सम्प्रति तदेवाध्वनि दर्शयति[भा.६३४१] अवयक्खंतो व भया, कहेति वा सत्थिया-ऽऽतिअत्तीणं।
विजं आइसुतं वा, केद भदा वा अनाभोगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org