________________
उद्देशकः ६, मूलं-२१४, [भा. ६३३०]
४०१
वा कुर्वाणो व्रजति । यद्वा सामान्येन 'नच नैवोपयुक्तः पथि व्रजति एष चक्षुर्लोल उच्यते ॥
अस्यैते दोषाः[भा.६३३१] छक्कायाण विराहण, संजमे आयाए कंटगादीया।।
आवडणे भाणभेदो, खद्धे उड्डाह परिहानी॥ वृ-अनुपयुक्तस्यगच्छतः संयमेषट्कायानां विराना भवेत्।आत्मविराधनायां कण्टकादयः पदयोलगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्रभाजनभेदः । 'खद्धे च प्रचुरे भक्त-पाने भूमौ छर्दिते उड्डाहो भवेत्-अहो! बहुभक्षका अमी इति । भाजने च भिन्ने परिहानि' सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे तत्परिकर्मणायां च भवति ॥ गतश्चक्षुर्लोलः । अथ तिन्तिणिकमाह[भा.६३३२] तितिणिए पुव्व भणिते, इच्छालोभे य उवहिमतिरेगे।
लहुओ तिविहं व तहिं, अतिरेगे जे भणिय दोसा ।। वृ-तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, सच पूर्व' पीठिकायांसप्रपञ्चमुक्त इति नेहोच्यते। चसुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्थुर्भवतीति । इच्छालोभस्तुस उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तंगृह्णाति, तत्र लघुकोमासः । त्रिविधंवातत्रप्रायश्चित्तम्। तद्यथा-जघन्ये उपधौ प्रमाणेनगणनयावाऽतिरिक्तेधार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु।येचातिरिक्तेउपधौदोषाः पूर्वं तृतीयोद्देशके भणितास्तेद्रष्टव्याः॥अथ निदानकरणमाह[भा.६३३३] अनियाणं निव्वाणं, काऊणमुवट्टितो भवे लहुओ।
पावतिधुवमायातिं, तम्हा अनियाणया सेया॥ वृ-'अनिदान' निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तम्, ततो यो निदानं करोति तस्य तत् कृत्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम्।अपिच यो निदानं करोति स यद्यपि तेनैव भवग्रहणेन सिद्धिं गन्तुकामस्तथापि 'ध्रुवम्' अवश्यम् ‘आयाति पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी॥ इदमेव व्याचष्टे[भा.६३३४] इह-परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं ।
सव्वत्थेसु भगवता, अनिदानत्तंपसत्यं तु॥ कृइहलोकनिमित्तम्-इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवत्यार्दिभोगानहं प्राप्नुयाम्, इहैव वाभवे विपुलान् भोगानासादयेयम्' इतिरूपम्परलोकनिमित्तं-मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र 'महर्द्धिकइन्द्रसामानिकादिरहं भूयासम्' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम्। किंबहुना? तीर्थकरत्वेन-आर्हन्त्येन युक्तंचरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपिनासंशनीयम्। कुतः ? इत्याह-'सर्वार्थेषु' सर्वेष्वपि-ऐहिका-ऽऽमुष्मिकेषु प्रयोजनेषु नासंशनीयम् । कुतः ? इत्याह-'सर्वार्थेषु सर्वेष्वपि-एहिका-ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव 'प्रशस्तं' श्लाधितम् । तुशब्द एवकारार्थः, स च यथास्थानं योजितः ।। व्याख्याताः षडपि परिमन्थवः । साम्प्रतमेतेष्वेव द्वितीयपदमाह[भा.६३३५] बिइयपदं गेलने, धाणे चेव तह य ओमम्मि ।
मोत्तूणं चरिमपदं, नायव्वं जंजहिं कमति ॥ वृ-द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच्च 'चरमपदं' निदानकरणरूपं [20] 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org