________________
४००
बृहत्कल्प-छेदसूत्रम् -३-६/२१४ अथ प्रागुद्विष्टं मृत-सुप्तदृष्टान्तद्वयमाह[भा.६३२६] गोयर साहू हसनं, गवक्खे दटुं निव भणति देवी ।
हसति मयगो कहं सो, ति एस एमेव सुत्तो वी।। वृ-एगो साहु गोचरचरियाए हिंडमाणो हसंतोदेवीए गवक्खोवविट्ठाए दिट्ठो। राया भणिओसामि! पेच्छ अच्छेरयं, मुयं मानुसंहसंतं दीसइ । राया संभंतो-कहं कहिं वा? |सा साहुंदरिसेइ। रायाभणइ-कहंमउ ? त्ति।देवी भणइ-इह भवेशरीरसंस्कारादिसकलसांसारिकसुखवर्जितत्वाद् मृत इवमृतः॥एवं सुत्तदिटुंतो विभाणियव्वो॥ अक्षरगमनिका त्वियम्-गोचरे साधोः पर्यटतः 'हसन' हास्यं दृष्ट्वा देवी नृपं भणति- मृतको हसति । नृपः पृच्छति-कुत्र स मृतको हसति ? । देवी हस्तसंज्ञयादर्शयति-एष इति । एवमेव मृतवत् सुप्तोऽपिमन्तव्यः, उभयोरपिनिश्चेष्टतया विशेषाभावात् ॥ गतः कौकुचिकः । सम्प्रति मौखरिकमाह_ [भा.६३२७] मुहरिस्स गोन्नणाणं आवहति अरिं मुहेन भासंतो।
लहुगोय होति मासो, आणादि विराधना दुविहा॥ वृ-मौखरिकस्य गौणं गुणनिष्पन्न नाम 'मुखेन'प्रभूतभाषणादिमुखदोषेणभाषमाणः अरिं' वैरिणम् ‘आवहति' करोतीति मौखरिकः । तस्यैवंमौखरिकत्वं कुर्वाणस्य लघुको मासःआज्ञादयश्च दोषाः । विराधना च संयमा-ऽऽत्मविषया द्विविधा । तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता॥आत्मविराधनां तु दृष्टान्तेनाह[भा.६३२८] को गच्छेज्जा तुरियं, अमुगो ति य लेहएण सिट्ठम्मि।
सिग्घाऽऽगतो य ठवितो, केनाहं लेहगं हणति॥ वृ-एगो राया। तस्स किंचि तुरियं कजं उप्पन्नं ताहे सभामझे भणइ-को सिग्धं वच्चेजा? । लेहगो भणइ-अमुगो पवनवेगेणं गच्छइ त्ति । रन्ना सो पेसिओ तं कर्ज काऊण तद्दिवसमेव आगओ।रना ‘एसो सिग्घगामि'त्ति काउंधावणओ ठविओ।तेन रुटेणंपुच्छियं-केणाहं सिग्घो. त्ति अक्खातो? ।अन्नेण सिटुं-जहा लेहएणं । पच्छा सो तेन तलिच्छेण छिदं लभ्रूण उद्दविओ। एवं चेव जो संजओ मोहरियत्तं करेइ सो आयविहणं पावेइ त्ति ॥ अक्षरार्थस्त्वयम्-'कस्त्वरितं गच्छेत् ?' इति रात्रोक्ते लेखकेन शिष्टम्-अमुक इति । ततः स तत् कार्यं कृत्वा शीघ्रमागतः । ततः 'स्थापितः' राज्ञा दौत्यकर्मणि नियुक्तः । ततः 'केनाहं कथितः ?' इति पृष्टवा लेखकेन' इति विज्ञाय लेखकं हतवान् । गाथायामतीतकालेऽपि वर्तमानानिर्देशः प्राकृतत्वात् ॥ 'गतो मौखरिकः । अथ चतुर्लोलमाह[भा.६३२९] आलोयणा य कहणा, परियट्टऽनुपेहणा अनाभोए।
लहुगो य होति मासो, आणादि विराधना दुविहा॥ वृ-स्तूपादीनामालोकनां कुर्वाणः 'कथनां' धर्मकथां परिवर्तनाम् अनुप्रेक्षां च कुर्वन् यदि 'अनाभोगेन' अनुपयुक्तोमार्गे व्रजति तदा लघुमासः,आज्ञादयश्च दोषाः, द्विविधाच विराधना भवेत् ॥ इदमेव भावयति[भा.६३३०] आलोएंतो वच्चति, थूभादीणि व कहेति वा धम्मं ।
परियट्टणाऽनुपेहण, न यावि पंथम्मि उवउत्तो॥ वृ-'स्तूपादीनि' स्तूप-देवकुला-ऽऽरामादीनि आलोकमानोधर्मवाकथयन् परिवर्तनामनुप्रेक्षा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org