SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ६, मूलं-२१४, [भा. ६३२०] ३९९ “मएलए सुत्ति"त्तिमृतदृष्टान्तः सुप्तध्ष्टान्तश्चात्रहास्यदोषदर्शनाय भवति, स चोत्तरत्र दर्शयिष्यते॥ अथैतदेव नियुक्तिगाथाद्वय बिभावयिषुः स्थानकौकुचिकं व्याचष्टे[भा.६३२१] आवडइखंभकुड्डे, अभिक्खणं भमति जंतए चेव । कमफंदण आउंटण, न याविबद्धासनो ठाणे॥ वृ-इहोपविष्ट ऊर्ध्वस्थितो वास्तम्भे कुड्ये वा य आपतति, यन्त्रकमिव वाऽभीक्ष्णं भ्रमति, क्रमस्य-पादस्य स्पन्दनमाकुञ्चनं वा करोति, न च नैव 'बद्धासनः' निश्चलासनस्तिष्ठति, एष स्थानकौत्कुचिकः॥अत्रामी दोषाः[भा.६३२२] संचारोवतिगादी, संजमे आयाऽहि-विच्चुगादीया। दुब्बद्ध कुहिय मूले, चडफडते य दोसातु॥ वृ- सञ्चारकाः-कुड्यादौ सञ्चरणशीला ये उवइकादयः-उद्देहिका-मन्थुकीटिकाप्रभृतयो जीवास्तेषां या विराधना सा संयमविषया मन्तव्या । आत्मविराधनायामहि-वृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः, यदि वा यत्र स्तम्भादौ स आपतति तद् दुर्बद्धं मूले वा कुथितं भवेत् ततस्तस्य पतने परितापनादिका ग्लानारोपणा, “चडफडते य"त्ति अभीक्ष्णमितस्ततो भ्राम्यतः सन्धिर्विसन्धीभवेदित्यादयोबहवोदोषाः । एवमुत्तरत्रापि दोषा मन्तव्याः॥अथ शरीरकौकुचिकमाह[भा.६३२३] कर-गोफण-धनु-पादादिएहइं उच्छुभति पत्थरादीए । भमुगा-दाढिग-थण-पुतविकंपणं नट्टवाइत्तं ॥ वृ-कर-गोफणा-धनुः-पादादिभि प्रस्तरादीन् य उत्-प्राबल्येन क्षिपति स शरीरकौकुचिकः । भ्रू-दाढिका-स्तन-पुतानां विकम्पनं-विविधम्-अनेकप्रकारैः कम्पनं यत् करोति तद् नृत्यपातित्वमुच्यते, नर्तकीत्वमित्यर्थः । एतेन “नट्टियाव"त्ति पदं व्याख्यातं प्रतिप्तव्यम् । गतः शरीरकौकुचिकः। अथ भाषाकौकुचिकमाह[भा.६३२४] छेलिय मुहवाइत्ते, जंपति य तहा जहा परो हसति । कुणइ य रुए बहुविधे, वग्घाडिय-देसभासाए। वृ-यः सेण्टितं मुखवादित्रं वा करोति, तथा वा वचनंजल्पति यथा परो हसति, बहुविधानि वा मयूर-हंस-कोकिलादीनां जीवानां रुतानि करोति, वग्घाडिकाः-उद्धट्टककारिणीः देशभाषा वा-मालव-महाराष्ट्रादिदेशप्रसिद्धास्ताद्दशीभाषा भाषते याभि सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः । अस्य दोषानाह[भा.६३२५] मच्छिगमाइपवेसो, असंपुडं चेव सेटिदिलुतो। दंडिय घतणो हासण, तेइच्छिय तत्तफालेणं॥ वृ-तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे मक्षिकादयः प्राणिनः प्रविशेयुः, प्रविष्टाश्च ते यत् परितापनादिकं प्राप्नुवन्ति तनिष्पनंतस्यप्रायश्चित्तम्।हसतश्चमुखमसम्पुटमेव भवेद्, न भूयो मिलेदित्यर्थः। तथा चात्र श्रेष्ठिदृष्टान्तः-कश्चिद् ‘दण्डिकः' राजा, तस्य “घयणो" भण्डः । तेन राजसभायामीशं किमपि 'हासन' हास्यकारि वचनं भणितं येन प्रभूतजनस्य हास्यमायातम्।तत्र श्रेष्ठिनोमहताशब्देन हसतोमुखं तथैव स्थितंनसम्पुटीभवति।वास्तव्यवैद्यानां दर्शितो नैकेनापि प्रगुणीकर्तुंपारितः। नवरं प्राघुणकेनैकेन चैकित्सिकेन लोहमयः फालः तप्तःअग्निवर्ण कृत्वा मुखे ढौकितः, ततस्तदीयेन भयेन श्रेष्ठिनो मुखं सम्पुटं जातम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy