________________
बृहत्कल्प-छेदसूत्रम् -३-६/२१४
३९८
भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्थौ प्रतिपादयति[भा. ६३१५] करणे अधिकरणम्मि य कारग कम्मे य दव्वपलिमंथो । एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु ॥
वृ- 'करणे' साधकतमे 'अधिकरणे' आधारे कारकः कर्ता तस्मिन् तथा 'कर्मणि च ' व्याप्ये द्रव्यतः परिमन्थो भवति । तथाहि करणे येन मन्थानादिना दध्यादिकं मध्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधि मध्यते, कर्तरि यः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानं यद् नवनीतादिकं भवति, एष चतुर्विधो द्रव्यपरिमन्थः । एवमेव 'भावेऽपि' भावविषयः परिमन्यश्चतुर्ष्वपि करणादिषु स्थानेषु भवति । तद्यथा- करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमो मथ्यते, अधिकरणे यस्मिन् आत्मनि स मध्यते, कर्तरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमं मथ्नाति कर्मणि यद् मध्यमानं संयमादिकमसंयमादितया परिणमते । एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः ॥
अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति
[भा.६३१६] दव्वम्मि मंथितो खलु, तेनं मंथिज्जए जहा दधियं । दघिल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं ॥
वृ-द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, 'तेन' मन्थानेन यथा दधि मध्यते तथा दधितुल्यः खलु 'कल्पः' साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः । तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह
[भा. ६३१७] कोकुइओ संजमस्स उ, मोहरिए चैव सच्चवयणस्स । इरियाए चक्खुलोलो, एसणसमिईए तिंतिनिए ।
वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित एषणासमितेः परिमन्धुरिति प्रक्रमादवगम्यते ।।
[ भा. ६३१८] नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं ।
एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥
वृ-लोभेन च मुक्तिमार्गं नाशयति, निदानतया तु सिद्धिपथम् । एतेषां पदानां प्रत्येकं प्ररूपणां वक्ष्ये ॥ प्रतिज्ञातमेव करोति
[ भा. ६३१९] ठाणे सरीर भासा, तिविधो पुन कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥ आणाइणो य दोसा, विराधना होइ संजमा - SSयाए । जं व नट्टिया वा, विराधन मइल्लए सुत्ते ॥
[ भा. ६३२०]
वृ- 'स्थाने' स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णं भ्रमणं करोति । देहः शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु, आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान- शरीर ] कौकुचिक उच्यते । यस्तु महता शब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेन संयमविराधना शूलादि रोगप्रकोपेनात्मविराधना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org