________________
३९७
उद्देशक ः ६, मूलं-२१४, [भा. ६३१२] [भा.६३१२] अहवा सव्वो एसो, कप्पो जो वन्निओ पलंबादी।
तस्स उ विवक्खभूता, पलिमंथा ते उ वज्जेजा। वृ-'अथवा' इति सम्बन्ध प्रकारान्तरद्योतने।यएषषट्स्वपिउद्देशकेषुप्रलम्बादिकः 'कल्पः' समाचार उक्तः 'तस्य' कल्पस्य वपक्षभूताः परिमन्थाः' कौकुच्य-मौखर्यादयोभवन्ति, अतस्तान् वर्जयेदिति ज्ञापनार्थमधिकृतसूत्रारम्भः ॥अथवा वज्रमध्योऽयमुद्देशकः, तथाहि[भा.६३१३] आइम्मि दोन्निछक्का, अंतम्मिय छक्कगा दुवे हुँति।
सो एस वइरमझो, उद्देसो होति कप्पस्स ॥ वृ-अस्मिन् षष्ठोद्देशके आदौ 'द्वेषट्के भाषाषट्क-प्रस्तारषट्कलक्षणे भवतः अन्तेऽपिच 'द्वेषट्के' परिमन्थषट्क-कल्पस्थितिषटकरूपे भवतः, ततः स एषः' कल्पोद्देशको वज्रमध्यो भवति, वज्रवदादावन्ते च द्वयोः षटकयोः सद्भावाद् विस्तीर्ण मध्ये तुसङ्क्षिप्त इत्यर्थः । तत्राचं षट्कद्वयं प्रागअभिहितमेव, अथान्त्यं षट्कद्वयमभिधीयते । तत्रापि प्रथमंतावदिदम् ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-'षड्' इति षटसङ्ख्याः ‘कल्पस्य' कल्पाध्ययनोक्तसाधुसमाचारस्य परि-सर्वतो मनन्ति-विलोडयन्तीति परिमन्थवः, उणादित्वादुप्रत्ययः, पाठान्तरेण परिमन्था वा, व्याघातका इत्यर्थः, 'प्रज्ञप्ताः' तीर्थकरादिभिः प्रणीताः । तद्यथा"कुकुइए"तति “कुचण्अवस्पन्दने" इति वचनात् कुत्सितम्-अप्रत्युपेक्षितत्वादिना कुचितम्अवस्पन्दितं यस्य स कुकुचितः, स एव प्रज्ञादिदर्शनात् स्वार्थिकाणप्रत्यये कौकुचितः; कुकुचा वा-अवस्पन्दितं प्रयोजनमस्येति कौकुचिकः; सः “संयमस्य' पृथिव्यादिरक्षणरूपस्य परिमन्थुः' व्याघातकारी १ । “मोहरिए" त्ति मुखं-प्रभूतभाषणातिशायि वदनमस्यास्तीति मुखरः, स एव मौखरिकः-बहुभाषी, विनयादेराकृतिगणत्वाद्इकणप्रत्ययः; यद्वा मुखेनारिमावहतीति व्युत्पत्त्या निपातनामौखरिकः; सत्यवचनस्य' मृषावादविरतेः परिमन्युः, मौखर्ये सतिमृषावादसम्भवात् २१चक्षुषालोलः-चञ्चलो यद्वा चक्षुलोलं यस्य स चक्षुर्लोलः; सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४ । इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, यथा निद्रानिद्रा महानिद्रेति; स च इच्छालोभः-अधिकोपकरणादिमेलनलक्षणः ‘मुक्तिमार्गस्य' मुक्तिनिष्परिग्रहत्वम् अभतेत्यर्थः सैव निवृतिपुरस्य मार्ग इव मार्गस्तस्य परिमन्थुः ५ । “भिज्ज"त्ति लोभस्तेन यनिदानकरणं-देवेन्द्र-चक्रवत्यादिविभूतिप्रार्थनं तद् 'मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानचतुर्थभेरूपत्वात्। भिजाग्रहणेन यदलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तत्रमोक्षमार्गस्य परिमन्थुरित्यावेदितंप्रतिपत्तव्यम् । ननुतीर्थकरत्वादिप्रार्थनंन राज्यादिप्रार्थनवद् दुष्टम्, अतस्तद्विषयं निदानं मोक्षस्य परिमन्थुन भविष्यति, नैवम्, यत आह-“सव्वत्थे" त्यादि 'सर्वत्र' तर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तांराज्यादौ 'निदानता' अप्रार्थनमेव भगवता' समग्रैश्वर्यादिमता श्रीमन्महावीरस्वामिना “पसत्थ"त्ति 'प्रशंसिता' श्लाधिता। एष सूत्रार्थः॥
अथ नियुक्तिविस्तरः[भा.६३१४] पलिमंथे निक्खेवो, नामा एगट्ठिया इमे पंच ।
पलिमंथो वक्खेवो, वक्खोड विनास विग्यो य॥ वृ-'परिमन्थे परिमन्थपदस्य निक्षेपश्चतुर्धाकर्तव्यः । तस्य चामूनिपञ्च एकार्थिकानि भवन्तिपरिमन्थो व्याक्षेपो व्याखोटो विनाशो विघ्नश्चेति । स च परिमन्थश्चतुर्द्धा-नाम-स्थापना-द्रव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org