SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० बृहत्कल्प-छेदसूत्रम् -३-४/११२ द्व्यादिगृहाणांसन्निवेशः, एवंविधस्वरूप एवग्रामान्तर्गतः पाटकः,साही-शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः परिपाटिः, ग्रामः-प्रतीतः, देशः-जनपदः, राज्यं नाम-यावत्सु देशेषु एकभूपतेराज्ञा तावद्देशप्रमाणम् । एतेषु यत्र यस्य दोष उत्पन्न उत्पत्सयते वा सततः पाराञ्चिकः क्रियते। तथा कुलेन यो निर्मूढः-बाह्यःकृतः सकुलपाराश्चिकः ।गणाबाह्यः कृतोगणपाराञ्चिकः। सङ्घा यस्य निर्वृहणा कृतास सङ्घपाराञ्चिकः॥किमर्थमुपाश्रयादिपाराञ्चिकः क्रियते? इत्याह[भा.५०१३] उवसंतो वि समाणो, वारिजति तेसु तेसु ठाणेसु । हंदि हुपुनो वि दोसं, तट्ठाणासेवणा कुणति ॥ वृ-'उपशान्तोऽपि स्वलिङ्गिप्रतिसेवनात् प्रतिनिवृत्तोऽपि सन् 'तेषु तेषु स्थानेषु प्रतिश्रयकुल-निवेशनादिषुविहरन् वार्यते। कुतः? इत्याह-'हन्दि' इति कारणोपप्रदर्शने, 'हुरिति निश्चये, पुनरप्यसौ तस्य स्थानस्यासेवनात् तमेव दोषं करोति । इदमेव स्पष्टतरमाह[भा.५०१४] जेसु विहरंति तातो, वारिजति तेसुतेसु ठाणेसु । पढमगभंगे एवं, सेसेसु ति ताई ठाणाइं॥ वृ-'येषु' ग्रामादिषु 'ताः' संयत्यो विहरन्ति तेषुतेषुस्थाने, सविहरन् वार्यते, ततः पाराञ्चिकः क्रियत इत्यर्थः । एवं 'प्रथमभङ्गे' स्वपक्षः स्वपक्षे दुष्टः' इतिलक्षणे विधिरुक्तः । शेषेष्वपि' द्वितीयादिषु भङ्गेषु तानि स्थानानि वर्जनीयानि । किमुक्तं भवति ?-द्वितीयभङ्गे यस्यामगार्यामध्युपपनस्तदीये कुल-निवेशनादीप्रविशन्वारणीयः, तृतीय-चतुर्थभङ्गयोः परपक्षः स्वपक्षे परपक्षे वा दुष्टः' इतिलक्षणयोः उपशान्तस्यापि तेषु स्थानेषु लिङ्गन दातव्यम् । [भा.५०१५] एत्थं पुन अहिगारो, पढमगभंगेन दुविह दुढे वी। उच्चारियसरिसाइं, सेसाई विकोवणट्ठाए। वृ-अत्र पुनः 'द्विविधेऽपि' कषायतो विषयतश्च दुष्टे प्रथमभङ्गेनाधिकारः । शेषाणि पुनः' द्वितीयभङ्गादीनि पदानि उच्चारितसद्दशानि विनेयमतिविकोपनार्थमभिहितानि॥ गतो दुष्टः पाराञ्चिकः । सम्प्रति प्रमत्तपाराञ्चिकमाह[भा.५०१६] कसाए विकहा विगडे, इंदिय निद्दा पमाद पंचविधो। अहिगारो सुत्तम्मि, तहिगंच इमे उदाहरणा॥ वृ-'कषायाः' क्रोधादयः, विकथा' स्त्रीकथादिका, 'विकटं मद्यम्, 'इन्द्रियाणि' श्रोत्रादीनि 'निद्रा' वक्ष्यमाणा, एष पञ्चविधः प्रमादो भवति । अयं च निशीथपीठिकायां यथा सविस्तर सपरायश्चित्तोऽपि भावितस्तथैवात्रापिमन्तव्यः।नवरमिहस्वपनंसुप्तं-निद्राइत्यर्थः, तयाऽधिकारः । सा च पञ्चविधा-निद्रा १ निद्रानिद्रा २ प्रचला ३प्रचलाप्रचला ४ सत्यानर्द्धिश्चेति ५। तत्र सुहपडिबोहोनिद्दा, दुहपडिबोहो य निद्दनिहाय । पयला होइ ठियस्सा, पयलापयला उचंकमतो॥ स्त्यानर्द्धिस्तु-स्त्याना-प्रबलदर्शनावरणीयकर्मोदयात् कठिनीभूता ऋद्धिः-चैतन्यशक्तिर्यस्यामवस्थायां सा स्त्यानर्द्धिः, यथा घृते उदके वा स्त्याने न किञ्चिदुपलभ्यते एवं चैतन्यऋध्यामपि स्त्यानायांन किञ्चिदुपलभ्यतइतिभावः । अत्रपाराञ्चिकस्यप्रस्तुतत्वात्स्त्यानद्धिनिद्रयाऽधिकारः। तस्यां चामून्युदाहरणानि॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy