________________
उद्देशक : ४, मूलं- ११२, [ भा. ५०१७ ]
[भा. ५०१७] पोग्गल मोयग फरुसग, दंते वडसालभंजणे सुत्ते । एतेहिं पुनो तस्सा, विविंचणा होति जतणाए ॥
१३१
वृ- 'पुद्गलं' पिशितम्, ‘मोदकः' लड्डुकः, 'फरुसकः' कुम्भकारः, 'दन्ताः' प्रतीताः, वटशालाभञ्जनम् । एतानि पञ्चोदाहरणानि 'सुप्ते' स्त्यानर्द्धिनिद्रायां भवन्ति । एतैः ' एतदृष्टान्तोक्तैश्चिह्वैः स्त्यानद्धिं परिज्ञाय 'तस्य' स्त्यानर्द्धिमतः साधोर्यतनया 'विवेचनं' परित्यागः कर्तव्यों भवति ॥ तत्र पुद्गल ध्ष्टान्तमाह
[भा.५०१८] पिसियासि पुव्व महिसं, विगच्चियं दिस्स तत्थ निसि गंतुं । अन्नं हंतुं खायति, उवस्सयं सेसगं नेति ॥
वृ- एगम्मि गामे एगो कोडुंबी पक्वानि य तलियानि य तिम्मनेसु अ अनेगसो मंसप्पगारे भक्खेइ । सो अ तहारूवाणं थेराणं अंतिए धम्मं सोउं पव्वइओ गामाइसु विहरइ । तेन य एगत्थ गा महिसो विगिच्चमाणो दिट्ठो । तस्स मंसे अभिलासो जातो। सो तेन अभिलासेण अव्वोच्छिन्नेणेव भिक्खं हिंडित्ता अव्वोच्छिन्त्रेणेव भुत्तो, एवं अव्वोच्छिन्त्रेण वियारभूमिं गतो । चरिमा सुत्तपोरिसी कया, आवस्सयं काउं पातोसिया पोरिसी विहिता । तदभिलासी चेव सुत्तो, सुत्तस्सेव थीणद्धी जाया । सो उट्ठओ, अनाभोगनिव्वत्तिएणं करणेणं गतो महिसमंडलं, अनं महिसं हंतुं भक्खित्ता सेसं आगंतुं उवस्सयस्स उवरिं ठवितं । पच्चूसे गुरूणं आलोएइ - एरिसो सुविणो दिट्ठो । साहूहिं दिसावलोकं करेंतेहिं दिट्टं कुणिमं, जाणियं जहा- एस थीणद्धी । ताहे लिंगपारंचियं पच्छित्तं से दिन्नं ॥ अथ गाथाक्षरार्थः-पिशिताशी कश्चित् 'पूर्वं' गृहवासे आसीत् । स च महिषं विकर्त्तितं दृष्ट्वा सञ्जाततद्भक्षणाभिलाषः 'तत्र' महिषमण्डले 'निशि' रात्रौ गत्वा अन्यं महिषं हत्वा खादति । 'शेषम्' उद्धरितमुपाश्रये नयति ।। लड्डुकष्टान्तमाह
[ भा. ५०१९] मोयगभत्तमलद्धुं भंतु कवाडे घरस्स निसि खाति । भाणं च भरेऊणं, आगतो आवासए विगडे ॥
1
वृ- एकः साधुर्भिक्षां हिण्डमानो मोदकभक्तं पश्यति । तच्च सुचिरमवलोकितमवभाषितं च, परं न लब्धम् । ततस्तदलब्ध्वा तदध्यवसायपरिणत एव प्रसुप्तः, रात्रौ तत्र गत्वा गृहस्य कपाटी भंक्त्वा मोदकान् भक्षयति, शेषैर्मोदकैर्भाजनं भृत्वा समागतः । प्राभातिके आवश्यक विकटयतिईशः स्वप्नो मया दृष्ट इति । ततः प्रभाते मोदकभृतं भाजनं दृष्टवा-ज्ञातम्, यथा-स्त्यानर्द्धिरिति । तस्यापलिङ्गपाराञ्चिकं दत्तम् । शेषं पुद्गलाख्यानकवद् वक्तव्यम् ॥ अथ फरुसकदृष्टान्तमाह[ भा. ५०२०] अवरो फरुसग मुंडो, मट्टियपिंडे व छिंदिउं सीसे । एते अवयज्झइ, पासुत्ताणं विगडणा य ।।
वृ- 'अपरः' कश्चित् ‘फरुसकः' कुम्भकारः क्वापि गच्छे मुण्डो जातः, प्रव्रजित इत्यर्थः । तस्य रात्री प्रसुप्तस्य स्त्यानर्द्धिरुदीर्णा । स च पूर्वं मृत्तिकाच्छेदाभ्यासी ततो मृत्तिकापिण्डानिव समीपप्रसुप्तानां साधूनां शिरांसि च्छेत्तुमारब्धः । तानि च शिरांसि कडेवराणि चैकान्ते अपोज्झति । शेषाः साधवोऽपसृताः । स च भूयोऽपि प्रसुप्तः । ततः प्रभाते 'ईशः स्वप्नो मया दृष्टः' इति विकटना कृता । प्रभाते च साधूनां शिरांसि कडेवराणि च पृथग्भूतानि दृष्ट्वा ज्ञातम्, यथास्त्यानर्द्धिरिति । लिङ्गपाराश्चिकं दत्तम् ॥ अथ दन्तदृष्टान्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org