________________
बृहत्कल्प-छेदसूत्रम् -३-४/११२
१३२
[ भा. ५०२१] अवरो वि धाडिओ मत्तहत्थिणा पुरकवाडे भंतूणं । तस्सुक्खणित्तु दंते, वसही बाहिं विगडणा य ।।
वृ- अपरः कोऽपि साधुर्गृहस्थभावे 'मत्तहस्तिना' शुण्डामुत्क्षिप्य धावता घाटितः, पलायमानो महता कष्टेन छुट्टितः । एष चूर्ण्यभिप्रायः । निशीथचूर्णिकृता तु "एगो साहू गोयरनिग्गतो हत्थिणा पक्खित्तो" इति लिखितम् । एवमुभयथाऽपि तं हस्तिकृतं पराभवं स्मृत्वा स साधुः तस्योपरि प्रद्वेषमापन्नः प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय पुरकपाटौ भंक्त्वा हस्तिशालां गत्वा तस्य हस्तिनो व्यापादनं कृत्वा दन्तानुत्खन्य वसतेर्बहिः स्थापयित्वा भूयोऽपि प्रसुप्तः प्रभाते च 'विकटना' स्वप्नमालोचयति । साधुभिश्च दिगवलोकनं कुर्वाणैर्गजदन्दौ वीक्षितौ । ततः 'स्त्यानर्द्धिमान् असौ' इति ज्ञात्वा लिङ्गपाराञ्चिकः कृतः ।। वटशालाभञ्जनदृष्टान्तमाह
[भा. ५०२०] उब्भामग वडसालेन घट्टितो केइ पुव्व वणहत्थी । asसालभंजणाSSनन, उस्सग्गाऽऽलोयणा गोसे ॥
वृ- एकः साधुः 'उद्भ्रामकः' भिक्षाचर्यां गतः । तत्र ग्रामद्वयस्यापान्तराले वटवृक्षो महान् विद्यते । स च साधुर्गाढतरमुष्णाभिहतो भरितभाजनस्तृषित-बुभुक्षित ईर्योपयुक्तो वेगेनाऽऽगच्छन् “वडसालेन’”त्ति लिङ्गव्यत्ययाद् वटपादपस्य शालया शिरसि घट्टितः सुष्ठुतरं परितापितः । ततो वटस्योपरि प्रद्वेषमुपगतः तदध्यवसायपरिणतश्च प्रसुप्तः । उदीणस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटपादपं भंक्त्वा उन्मूल्य तदीया शालामानीयोपाश्रयोपरि स्थापितवान् । 'उत्सर्गे च' आवश्यककायोत्सर्गत्रिके कृते 'गोसे च' प्रभाते तथैव गुरूणामालोचयति । ततो दिगवलोके कृते तथैव ज्ञातम्, लिङ्गपाराञ्चिकः कृतश्च । केचिदाचार्या ब्रुवते स पूर्वभवे वनहस्ती बभूव, ततो मनुजभवमागतस्य प्रव्रजितस्योदीर्णस्त्यानर्द्धेः पूर्वमवाभ्यासाद् वटशालाभञ्जनमभवत् । शेषं प्राग्वद् ।। कथं पुनरसौ परित्यजनीयः ? इत्याह
[ भा. ५०२३ ] केसव अद्धबलं पन्नवेंति मुय लिंग नत्थि तुह चरणं । नेच्छस्स हरइ संघो, न वि एक्को मा पदोसं तु ॥
वृ- केशवः - वासुदेवस्तस्य बलादर्धबलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति । एतच्च प्रथमसंहननिनमङ्गीकृत्योक्तम्, इदानीं पुनः सामान्यलोकबलाद् द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः - सौम्य ! मुञ्च लिङ्गम्, नास्ति तव 'चरणं' चारित्रम् । यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनम् । अथ न मुञ्चति ततः सङ्घः समुदितो लिङ्ग तस्य मोक्तुमनिच्छतः सकाशाद् 'हरति' उद्दालयति, न पुनरेकः । कुतः ? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्च व्यापादनमपि कुर्यात् ॥
लिङ्गापहारनियमार्थमिदमाह
[भा. ५०२४] अवि केवलमुप्पाडे, न य लिंगं देति अनतिसेसी से । देसवत दंसणं वा, गिण्ह अनिच्छे पलायंति ॥
वृ- 'अपिः' सम्भावने सचैतत् सम्भावयति यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथापि “से” ‘तस्य' स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति । यः पुनरतिशयज्ञानी स जानाति-न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति, इतरथा न ददाति । लिङ्गापहारे पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org