________________
उद्देशक : ४, मूलं- ११२, [भा. ५०२४]
१३३
क्रियमाणेऽयमुपदेशो दीयते - 'देशव्रतानि' स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थ ततः 'दर्शनं' सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा 'पलायन्ते' देशान्तरं गच्छन्ति ॥
गतः प्रमत्तपाराञ्चिकः । अथान्योन्यं कुर्वाणं तमेवाह
[भा. ५०२५] करणं तु अन्नमन्ने, समणाण न कप्पते सुविहिताणं । जे पुन करेंति नाता, तेसिं तु विविंचणा भणिया ।।
वृ-तुशब्दस्य व्यवहितसम्बन्धतया 'अन्योन्यं' परस्परं पुनर्यत् 'करणं' मुख-पायुप्रयोगेन सेवनं तत् श्रमणानां सुविहितानां कर्तुं न कल्पते । ये पुनः कुर्वन्ति ते यदि ज्ञातास्तदा तेषां ' विवेचना' परिष्ठापना भणिता ॥ इदमेव व्याचष्टे
[भा. ५०२६]
आसग-पोसगसेवी, केई पुरिसा दुवेयगा होंति । तेसिं लिंगविवेगो, बितियपदं रायपव्वइते ।।
वृ- आस्यं मुखं आस्यमेवास्यकम्, पोसकः पायुः, आस्यक-पोसकाभ्यां सेवितुं शीलमेषामित्यासक-पोसकसेविनः; केचित् 'पुरुषाः' साधवः द्विवेदकाः' स्त्री-पुरुषवेदयुक्ता भवन्ति, नपुंसकवेदिन इत्यर्थः तेषां लिङ्गविवेकः कर्तव्यः, लिङ्गपाराञ्चिकं दातव्यमित्यर्थः । द्वितीयपदमत्र भवति-यो राजप्रव्रजितस्तस्यास्यक-पोसकसेविनोऽपि लिङ्गं नापह्रियते, परंयतनया स परित्यज्यते । गतोऽन्योन्यं कुर्वाणः पाराञ्चिकः । सम्प्रति यो दुष्टादिर्यतः पाराञ्चिकः क्रियते तदेतद् दर्शयति[ भा. ५०२७] विइओ उवस्सयाई, कीरति पारंचितो न लिंगातो । अनुवरमं पुन कीरति, सेसा नियमा तु लिंगाओ ।
वृ- 'द्वितीयः' विषयदुष्ट उपाश्रयादेः पाराञ्चिकः क्रियते, क्षेत्रत इत्यर्थः, 'न लिङ्गाद्' लिङ्गपाराञ्चिको न विधीयते । अथ ततो दोषान्नोपरमते तदाऽनुपरमन् लिङ्गतोऽपि पाराञ्चिकः क्रियते । 'शेषाः' कषायदुष्ट-प्रमत्ता ऽन्योन्यसेवाकारिणो नियमाद् लिङ्गपाराञ्चिकाः क्रियन्ते ॥ किमेत एव पाराञ्चिकाः ? अस्तीति ब्रूमः । कीदृशः सः ? इति चेद् उच्यतेइंदिय-पमाददोसा, जो पुन अवराहमुत्तर्म पत्तो । सब्भावसमाउट्टो, जति य गुणा से इमे होंति ।
[ भा. ५०२८]
वृ- इन्द्रियदोषात् प्रमाददोषाद्वा पाराञ्चिकापत्तियोग्याद् यः पुनः साधुः 'उत्तमम्' उत्कृष्टमपराधपदं प्राप्तः स यदि 'सद्भावसमावृत्तः' 'निश्चयेन भूयोऽहमेवं न करिष्यामि' इति व्यवसितस्तदा स तपःपाराञ्चिकः क्रियते, यदि च “से” तस्येमे गुणा भवन्ति ॥
के पुनस्ते ? इत्याह
[भा. ५०२९] संघयण-विरिय आगम- सुत्त ऽत्थ-विहीए जो समग्गो तु । तवसी निग्गहजुत्तो, पवयणसारे अभिगतत्थो ।
वृ- संहननं-वज्रऋषभनाराचम्, वीर्यं धृत्या वज्रकुड्यसमानता, आगमः- जघन्येन नवमपूर्वान्तर्गतमाचाराख्यं तृतीयं वस्तु उत्कर्षतो दशमपूर्वमसम्पूर्णम्, तच्च सूत्रतोऽर्थतश्च यदि परिजितं भवति, एतैः संहननादिभिर्विधिना च तदुचितसमाचारेण यः 'समग्रः' सम्पूर्ण । 'तपस्वी नाम' सिंहनिक्रीडितादितपःकर्मभावितः । निग्रहयुक्तः' इन्द्रिय- कषायाणां निग्रहसमर्थ । 'प्रवचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org