________________
१३४
सारेऽभिगतार्थ' परिणामितप्रवचनरहस्यार्थ इति । किञ्च
[भा. ५०३०] तिलतुसतिभागमित्तो वि जस्स असुभो न विज्ञ्जती भावो । निज्जूहणाइ अरिहो, सेसे निज्जूहणा नत्थि ।।
वृ- यस्य गच्छान्निर्यूढस्य तिलतुषत्रिभागमात्रोऽपि 'निर्यूढोऽहम्' इत्यशुभो भावो न विद्यते स निर्यूहणायाः 'अर्हः' योग्यः । 'शेषस्य' एतद्गुणविकलस्य निर्यूहणा नास्ति, न कर्तव्येत्यर्थः ॥ इदमेव व्याचष्टे
[ भा. ५०३१]
बृहत्कल्प-छेदसूत्रम् -३-४/११२
एयगुणसंपजुत्तो, पावति पारंचियारिहं ठाणं ।
एयगुणविप्पमुक्के, तारिसगम्मी भवे मूलं ॥
वृ- एतैः संहननादिभिर्गुणैः सम्प्रयुक्तः पाराञ्चिकार्हं स्थान् प्राप्नोति । यः पुनरेतद्गुणविप्रमुक्तः 'ताशे' पाराञ्चिकापत्तिप्राप्तेऽपि मूलमेव प्रायश्चित्तं भवति ।। अथ पाराञ्चिकमेव कालतो निरूपयति[ भा. ५०३२] आसायणा जहन्ने, छम्मासुक्कोस बारस तु मासे । वासं बारस वासे, पडिसेवओ कारणे भतिओ ॥
•
वृ- आशातनापाराञ्चिको जघन्येन षण्मासान् उत्कर्षतश्च द्वादश मासन् भवति, एतावन्तं कालं गच्छान्निर्यस्तिष्ठतीत्यर्थः । प्रतिसेवनापाराञ्चिको जघन्येन संवतसरम् उत्कर्षतो द्वादश वर्षाणि निर्यूढ आस्ते । “पडिसेवओ कारणे भइओ" त्ति यः प्रतिषेवकपाराञ्चिकः सः ‘कारणे' कुलगणादिकार्ये 'भक्तः' विकल्पितः, यथोक्तकालादर्वागपि गच्छं प्रविशतीति भावः ॥ अथ तस्यैव गणनिर्गमनविधिमाह
[भा. ५०३३]
इत्तिरियं निक्खेवं, काउं अन्नं गणं गमित्ताणं । दव्वादि सुभे विगडण, निरुवस्सग्गट्ट उस्सग्गो ॥
वृ- इह यः पाञ्चिकं प्रतिपद्यते स नियमादाचार्य एव भवति, तेन च स्वगणे पाराञ्चिकं न प्रतिपत्तव्यम्, अन्यस्मिन् गणे गन्तव्यम् । तत इत्वरं गणनिक्षेपमात्मतुल्ये शिष्ये कृत्वा ततोऽन्यं गणं गत्वा 'द्रव्यादिषु' द्रव्य क्षेत्र काल- भावेषु 'शुभेषु' प्रशस्तेषु विकटनाम्' आलोचनां परगणाचार्यस्य प्रयच्छति । उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्गं प्रकुरुतः ॥
अथ किं कारणं स्वगणे न प्रतिपद्यते ? उच्यते
Jain Education International
[भा. ५०३४] अप्पच्चय निब्भयया, आणाभंगो अजंतणा सगणे । परगणे न होंति एए, आणाथिरता भयं चेव ॥
वृ- स्वगच्छ एव पाराञ्चिकप्रतिपत्तौ अगीतार्थानामप्रत्ययो भवति नूनमकृत्यमनेन प्रतिसेवितं येन पाराञ्चिकः कृतः । ततस्तेषां निर्भयता भवति, न गुरूणां बिभ्यतीत्यर्थः । अबिभ्यतश्चाज्ञाभङ्गं कुर्वीरन् । अयन्त्रणा च स्वगणे भवति, शिष्यानुरोधादिना स्वयमेव भक्त-पानानयनादौ नियन्त्रणा वक्ष्यमाणा न भवतीत्यर्थः । परगणे चैते दोषा न भवन्ति । अपि च-तत्र गच्छता भगवतामाज्ञानुपालने 'स्थिरता' स्थैर्यं कृतं भवति, भयं चात्मनः सञ्जायते, ततः परगणं गत्वा तत्र पाराञ्चिकं पतिपद्य निरपेक्षः सक्रोशयोजनात् क्षेत्राद् बहिर्व्रजति ।। तस्य चेयं सामाचारी
[ भा. ५०३५ ] जिनकप्पियपडिरूवी, बाहिं खेत्तस्स सो ठितो संतो । विहरति बारस वासे, एगागी झाणसंजुत्तो ॥
For Private & Personal Use Only
www.jainelibrary.org