________________
उद्देशक : ४, मूलं-११२, [भा. ५०३५]
१३५ वृ-'जिनकल्पिकप्रतिरूपी' 'अलेपकृतं भैक्षं ग्रहीतव्यम्, तृतीयस्यां पौरुष्यां पर्यटनीयम्' इत्यादिका याशी जिनकल्पिकस्य चर्या तां कुर्वन क्षेत्राद् बहि स्थितः सन् ‘सः' पाराञ्चिकः एकाकी 'ध्यानसंयुक्तः' श्रुतपरावर्तनकचित्तो द्वादश वर्षाणि विहरति ॥ यस्य चाऽऽचार्यस्य सकाशे प्रतिपद्यते तेन यत् कर्तव्यं तदाह[भा.५०३६] ओलोयणं गवेसण, आयरितो कुणति सव्वकालं पि।
उप्पन्ने कारणम्मिं, सव्वपयत्तेण कायव्वं ॥ वृ-आचार्य पाराश्चिकस्य ‘सर्वकालमपि' यावन्तं कालं प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत् प्रतिदिवसमवलोकनं करोति, तत्समीपं गत्वा तदर्शनं करोतीत्यर्थः । तदनन्तरं 'गवेषणं' 'गतोऽल्पक्लमतयाभवतां दिवसोरात्रिर्वा?' इति पृच्छां करोति। उत्पन्ने पुनः 'कारणे' ग्लानत्वलक्षणे सर्वप्रयत्लेन भक्त-पानाहरणादिकं स्वयमाचार्येण तस्य कर्तव्यम् ।। [भा.५०३७] जो उ उवेहं कुजा, आयरिओ केणई पमाएणं ।
आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिट्ठा ।। वृ- यः पुनराचार्य 'केनापि प्रमादेन' जनव्याक्षेपादिना 'उपेक्षां कुरुते' तत्समीपं गत्वा तच्छरीस्योदन्तं न वहति तस्याऽऽरोपणा 'पूर्वनिर्दिष्टा' ग्लानद्वाराभिहिता कर्तव्या, चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः॥
यदुक्तम् "उत्पन्ने कारणे सर्वप्रयत्नेन कर्तव्यम्" तद्भावयति[भा.५०३८] आहरति भत्त-पानं, उव्वत्तणमाइयं पि से कुणति।
__सयमेव गणाहिवई, अह अगिलाणो सयं कुणति॥ वृ-अथ स पाराञ्चिको ग्लानोऽभवत् ततस्तस्य 'गणाधिपति' आचार्य स्वयमेव भक्तंपानंच 'आहरति' आनयति, उद्वर्तनम् आदिशब्दात् परावर्तनोर्द्धकरणोपवेशनादिकंतस्य स्वयंकरोति। अथ जातः ‘अग्लानः' नीरोगस्तत आचार्यं न किमपि कारयति किन्तु सर्वं स्वयमेव कुरुते ॥
अधुना यदुक्तम् “ओलोयणं गवेसण" ति तद्व्याख्यानार्थमाह. [भा.५०३९] उभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणि। .
आसासइत्ताण तवोकिलंतं, तमेव खेत्तं समुति थेरा।। वृ-'स्थविराः' आचार्याः शिष्याणांप्रतीच्छकानां च 'उभयमपि' सूत्रमर्थंच, किंविशिष्टम् ? इत्याह-'सप्रतिपृच्छं' पृच्छा-प्रश्नस्तस्याः प्रतिवचनं प्रतिपृच्छा तया सहितं सप्रतिपृच्छम्, सूत्रविषयेऽर्थविषये च यद् येन पृष्टं तप्रतिवचनं दत्त्वा तत्सकाशमुपगम्य तदीयशरीरस्य “वट्टमाणि"ति वर्तमानेकाले भवा वार्त्तमानी-वार्तेत्यर्थःस्तां वहन्ति, अल्पक्लाम्यतांपृच्छन्तीति भावः । सोऽपिचाऽऽचारागतं मस्तकेन वन्दे' इति फेटावन्दनकेन वन्दते।शरीररस्य चोदन्तमूढ्वा यदि तपसा क्लाम्यति तत आश्वासयन्ति । आश्वास्य च तदेव क्षेत्रं' यत्र गच्छोऽवतिष्ठते तत् समुपगच्छन्ति स्थविराः ।।
अथ द्वावपि सूत्रार्थों दत्त्वा तत्र गन्तुं न शक्नोति ततः को विधिः? इत्याह[भा.५०४०] असहू सुत्तं दातुं, दो वि अदाउं व गच्छति पए वि।
संघाडओ से भत्तं, पानं चाऽऽनेति मग्गेणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org