________________
१३६
बृहत्कल्प-छेदसूत्रम् -३-४/११२ वृ- इहैकस्यापि कदाचिदेकवचनं कदाचिच्च बहुवचनं सर्वस्यापि वस्तुन एकाऽनेकरूपताख्यापनार्थमित्यदुष्टम् । असहिष्णुराचार्य सूत्रं दत्त्वा गच्छति।अथतथापिन शक्तोति ततः 'द्वावपि' सूत्रा-ऽर्थावदत्त 'प्रगे' प्रभात एव गच्छति । तस्य च तत्र गतस्य एकः सङ्घाटको भक्तं पानकं च ‘मार्गेण' पृष्ठत आनयति ॥ कदाचिनन्न गच्छेदपि तत्रैतानि कारणानि[भा.५०४१] गेलनेण व पुट्ठो, अभिनवमुक्को ततो व रोगातो ।
कालम्मि दुब्बले वा, कज्जे अन्ने व वाघातो॥ वृ-स आचार्यो ग्लानत्वेन वा स्पृष्टो भवेद् अथवा 'तस्माद्' ग्लानत्वकारणाद् रोगाद् 'अभिनवमुक्तः' तत्कालमुक्तः स्यात् ततो न गच्छेत् । यदि वा काले 'दुर्बले न विद्यते बलं गमनाय यस्मिन्गाढातपसम्भवादिनास दुर्बलः-ज्येष्ठा-ऽऽषाढादिकः कालः, दुरशब्दोऽभाववाची, तस्मिन् न गच्छेत्, शरीरक्लेशसम्भवात् । “कजे अन्ने व वाघातो" इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, ततोऽयमर्थः-अन्येन वा कार्येण केनापि व्याघातो भवेत्।।
कं पुनस्तत् कार्यम् ? इत्याह[भा.५०४२] वायपरायण कुवितो, चेइय-तद्दव्व-संजतीगहणे ।
पुव्वुत्ताण चउण्ह वि, कजाण हवेज अन्नयरं ॥ वृ-वादे कस्यापि राजवल्लभवादिनः पराजयेन नृपति कुपितः स्यात्।अथवा चैत्यं-जिनायतनं किमपि तेनावष्टब्धं स्यात् ततस्तन्मोचने क्रुद्धो भवेत् । अथवा तव्यस्य-चैत्यद्रव्यस्य संयत्या वा ग्रहणं राज्ञा कृतं तन्मोचने वा कुपितः । ततः 'पूर्वोक्तानाम्' इहैव प्रथमोद्देशके प्रतिपादितानां निर्विषयत्वाज्ञापन-भक्तपाननिषेधोपकरणहरण-जीवितचारित्रभेदलक्षणानांचतुर्णा कार्याणामन्यतरत् कार्यमुत्पन्नं भवेत्ततो न गच्छेत्॥अगमने चोपाध्यायः प्रेषणीयोऽन्यो वा, तथाचाह[भा.५०४३] पेसेइ उवज्झाय, अन्नं गीतं व जो तहिं जोग्गो।
पुट्ठो व अपुट्ठो वा, स चावि दीवेति तं कज्जं ॥ कृ-पूर्वोक्तकारणवशतःस्वयमाचार्यस्य गमनाभावे उपाध्यायंतदभावेऽन्योवायोगीतार्थस्तत्र योग्यस्तंप्रेषयति । स चापि तत्र गतः सन् तेन पाराञ्चितेन 'किमित्यद्य क्षमाश्रमणा नायाताः?' इति पृष्टो वाऽपृष्टो वा तत् 'कार्य' कारणं दीपयेत्, यथा-अमुकेन कारणेन नायाता इति॥ [भा.५०४४] जाणंता माहप्पं, सयमेव भणंति एत्थतं जोग्गो।
अस्थि मम एत्थ विसओ, अजाणए सो व ते बेति॥ वृ. इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानागमनं पृष्टेनापृष्टेन वा दीपितं तदा न किमप्यन्यत् तेन पाराञ्चितेन वक्तव्यं किन्तु गुवदिश एवोभाभ्यां यथोदितः सम्पादनीयः । अथ राजप्रद्वेषोनिर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्यायाअन्येवागीतार्थास्तस्य शक्ति स्वयमेव बुध्यन्ते ततो जानन्तः स्वयमेव तस्य माहात्म्यं तं ब्रुवते, यथा-अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः। अथ न जानते तस्य शक्ति ततः स एव तानजानानान् ब्रूते, यथाअस्ति ममात्र विषय इति । एतच्च स्वयमुपाध्यायादिभिर्वा भणितो वक्ति[भा.५०४५] अच्छउ महानुभागो, जहासुहं गुणसयागरो संघो। __गुरुगं पि इमं कजं, मं पप्प भविस्सए लहुयं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org