________________
१३७
उद्देशकः ४, मूलं-११२, [भा. ५०४५]
वृ-तिष्ठतु यथासुखं महान् अनुभागः-अधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य सः, तथा गुणशतानाम-अनेकेषां गुणानाम् आकरः-निधानं गुणशताकरः सङ्घः। यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रोयजनस्य लीलयाऽपि साधने इति भावः ।।
एवमुक्ते सोऽनुज्ञातः सन् यत् करोति तदाह[भा.५०४६] अभिहाण-हेउकुसलो, बहूसुनिराजितो विउसभासु। .
गंतूण रायभवने, भणातितं रायदारटुं । वृ. 'अभिधान-हेतुकुशलः' शब्दाम्रागे तर्कमार्गे-ऽतीव क्षुन्न इत्यर्थः, अत एव बहुषु विद्वत्सभासु'नीराजितः' निर्वटितः, इत्थम्भूतः स पाराञ्चिको राजभवेन गत्वा तं 'राजद्वारस्थं' प्रतीहारं भणति ॥ किं भणति? इत्याह[भा.५०४७] पडिहाररूवी ? भण रायरूविं, तमिच्छए संजयरूवि दटुं।
निवेदयित्ता य स पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे॥ वृ-हे प्रतीहाररूपिन् ! मध्ये गत्वा ‘राजरूपिणं' राजानुकारिणं भण, यथा-त्वां संयतरूपी द्रष्टुमिच्छति । एवमुक्तः सन् ‘सः' प्रतीहारस्तथैव पार्थिवस्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र 'तकं साधुं प्रवेशयति । [मा.५०४८] तं पूयइत्ताण सुहासनत्थं, पुच्छिसु रायाऽऽगयकोउहल्लो ।
पण्हे उराले असुए कयाई, स चावि आइक्खइ पत्थिवस्स ।। वृ-'तं' साधुंप्रविष्टं सन्तं राजापूजयित्वा शुभासनस्थं' शुभेआसने निषन्नमागतकुहूहलोऽप्राक्षीत्। कान्? इत्याह-प्रश्नान् ‘उदारान्' गम्भीरार्थान् कदाचिदप्यश्रुतान् “प्रतिहाररूपिन्'! इत्येवमादिकान् । स चापि' साधुरेवं पृष्टः पार्थिवस्याचष्टे । किमाचष्टे ? इत्याह[भा.५०४९] जारिसग आयरक्खा, सक्कादीणं न तारिसो एसो।
तुह राय! दारपालो, तं पिय चक्कीण पडिरूवी॥ वृ-याध्शकाः खलु शक्रादीनाम्, आदिशब्दात् चमरादिपरिग्रहः, आत्मरक्षा न ताश एष तत्र राजन्! द्वारपालस्तत उक्तम् “हे प्रतीहाररूपिन्!" तथा त्वमपि याद्दशश्चक्रवर्ती ताईशो न भवसि, रलाद्यभावात्, अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या, किञ्च प्रताप-शौर्यन्यायानुपालनादिनात प्रतिरूपोऽसितत उक्तम् “राजरूपिणं ब्रूहि", चक्रवर्तिप्रतिरूपमित्यर्थः॥ एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरूपी? तत आह[भा.५०५०] समणाणं पडिरूवी, जंपुच्छसि राय ! तं कहमहं ति ।
निरतीयारा समणा, न तहाऽहं तेन पडिरूवी॥. वृ-यत् त्वं राजन् ! पृच्छसि ‘अथ। कथं त्वं श्रमणानां प्रतिरूपी ?' तदहं कथयामि-यथां श्रमणा भगवन्तो निरतिचारा न तथाऽहं तेन श्रमणानां प्रतिरूपी, न तु साक्षात् श्रमण इति ॥ प्रतिरूपित्वमेव भावयति[भा.५०५१] निजूढो मिनरीसर!, खेत्ते विजईण अच्छिउंन लभे।
अतियारस्स विसोधि, पकरेमि पमायमूलस्स ॥ वृ-हेनरेश्वर! प्रमादमूलस्यातिचारस्य सम्प्रति विशोधिप्रकरोमि, तां च कुर्वन् 'निढोऽस्मि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org