________________
बृहत्कल्प-छेदसूत्रम् - ३-४/११२
निष्कासितोऽस्मि, तत आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुंन लभे, ततः श्रमप्रतिरूप्यहमिति । राजा प्राह-सत्त्वया कृतोऽतिचारः ? का वा तस्य विशोधि ? एवं पृष्टे यत् कर्तव्यं तदाह[भा. ५०५२] कहणाऽऽउट्टण आगमनपुच्छणं दीवणा य कजस्स । वीसज्जियंतिय मए, हासुस्सलितो भणति राया ॥
- कथनं राज्ञा पृष्टस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनभावना भवति । ततः 'आवर्तनम्' आकम्पनम् राज्ञो भक्तीभवनमिति भावः । तदननतरमागमनकारणस्य प्रश्नः - केन प्रयोजनेन यूयमत्राऽऽगताः स्थ ? । अत्रान्तरेयेन कार्येणागतस्तस्य 'दीपना' प्रकाशना । ततो राजा "हासुस्सलिओ "त्ति हासेन युक्त उत्सृतः हृष्टो हासोत्सृतः, हसितमुखः प्रहृष्टश्च सन्नित्यर्थः, भणति । यथा-मया 'विसर्जितं ' मुत्कलितं निर्विषयाज्ञापनादिकं कार्यमिति ॥
१३८
एवं च किं सञ्जातम् ? इत्याह
[भा. ५०५३] संघो न लभइ कज्जं, लद्धं कज्जं महानुभाएणं । तुब्भं ति विसङ्गेमिं, सोविय संघो त्ति पूएति ॥
वृ-निर्विषयत्वाज्ञापनमुत्कलनादिलक्षणं कार्यं सङ्घो न लभते किन्तु तेन पाराञ्चिकेन 'महानुभागेन' सातिशयाचिन्त्यप्रभावेन लब्धम्। न च स एवं कार्यलाभेन गर्वमुद्वहति, यत आह- "तुमं ति" इत्यादि, राजा प्राह- युष्माकं भणितेनाहं पूर्वग्राहं त्यक्त्वा तत् कार्यं विसर्जयामि नान्यथा । 'सोऽपि च' पाराञ्चिको ब्रूते - कोऽहम् ? कियन्मात्रो वा ? गरीयान् सङ्घो भट्टारकः, तत्प्रभावादेवाहं किञ्चिज्जानामि, तस्मात् सङ्घामाहूय क्षमयितवा यूयमेवं ब्रूत-मुत्कलितं मया युष्माकमिति । ततो राजाऽपि सङ्घं पूजयति ॥
[भा. ५०५४] अब्मत्थितो व रन्ना, सयं व संघो विसज्जति तु तुट्ठो । आदी मज्झऽवसाणे, स यावि दोसो धुओ होइ ।।
वृ- राजा सङ्कं ब्रूयात्-मया युष्माकं विसर्जितं कार्यम्, परं मदीयमपि कार्यमिदानीं कुरुतमुञ्चतास्य पाराञ्चिकस्य प्रायश्चित्तम् । एवं राज्ञाऽभ्यर्थितो यदि वा स्वयमपि तुष्टः सङ्घः 'विसर्जयति' मुत्कलयति । किमुक्तं भवति ? यद् व्यूढं तद् व्यूढमेव, शेषं तु पुनर्देशतः सर्वतो वा प्रसादेन मुञ्चति । तस्य च पाराञ्चिकतपसस्तदानीमादिर्मध्यमवसानं वा भवेत्, त्रिष्वपि सङ्घस्यादेशात् 'स चापि' पाराञ्चिकपत्तिहेतुर्दोषः 'धुतः' कम्पितः, प्रसादेन स्फेटितो भवतीत्यर्थः । तत्र देशो देशदेशो वा प्रायश्चित्तस्य तेन वोढव्यः । अथ राजा तस्यापि मोचने निर्बन्धं करोति तदा तदपि मुच्यते । देशो नाम-षड्भागः, देशदेशः- दशभागः ॥
तत्र देशे यावन्तो मासा भवन्ति तदेतत् प्रतिपादयति
[भा. ५०५५ ] एक्को य दोन्नि दोन्नि य, मासा चउवीस होंति छब्भागे । संदोह वि एयं, वहेज मुंचेज वा सव्वं ॥
वृ- इहाशातनापाराञ्चिको जघन्यतः षण्मासान् उत्कर्षतो वर्षं भवति इत्युक्तम्, तत्र षण्मासानां षष्ठे भागे एको मासो लभ्यते वर्षस्य तु षड्भागे द्वौ मासौ भवतः । प्रतिसेवनापाराञ्चिको जघन्यतो वर्षम् उत्कर्षतो द्वादश वर्षाणि भवतीत्युक्तम्, तत्रापि वर्षस्य षड्भागे द्वौ मासौ द्वादशवर्षाणां षष्ठे भागे चतुर्विंशतिर्मासा भवन्ति । एवंविधं देशं 'द्वयोरपि' आशातना-प्रतिसेवनापाराञ्चिकयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org