________________
.१३९
उद्देशक : ४, मूलं-११२, [भा. ५०५५] सम्बन्धिनं सङ्घस्यादेशाद् वहेत्, यद्वा सर्वमपि सङ्घो मुञ्चेत्, न किमपि कारयेदित्यर्थः ।।
अथ देशदेशमाह[भा.५०५६] अट्ठारस छत्तीसा, दिवसा छत्तीसमेव वरिसंच।
बावत्तरिंच दिवसा, दसभागवहेज बितिओतु॥ वृ- आशातनापाराञ्चके षण्मासानां दशमे भागेऽष्टादश दिवसा वर्षस्य तु दशमे भागे षट्त्रिंशदिवसा भवन्ति। प्रतिसेवनापाराञ्चिके संवत्सरस्य दशमे भागेषट्त्रिंशदिवसा द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भवन्ति । एतावन्तं कालं यद् वहेद् एषः 'द्वितीयः' देशदेश उच्यते ।। उपसंहरन्नाह[भा.५०५७] पारंचीणं दोण्ह वि, जहन्नमुक्कोसयस्स कालस्स।
छब्भां दसभागं, वहेज सव्वं व झोसिज्जा ॥ वृ-'द्वयोरपि आशातना-प्रतिसेवनापाराञ्चिकयोर्जघन्य उत्कृष्टश्चयःकालस्तस्य सम्बन्धिनं षड्भागं दशभागं वाऽनन्तरोक्तं वहेत् । यद्वा 'सर्वमपि अवशिष्यमाणं सङ्घः क्षपयेत्, प्रसादेन मुञ्चेदिति भावः॥
मू. (११३) ततो अनवट्टप्पा पन्नत्ता, तंजहा-साहम्मियाणं तेनं करेमाणे, अन्नधम्मियाणं तेनं करेमाणे, हत्थादालं दलेमाणे ॥
वृ-अस्य सम्बन्धमाह[भा.५०५८] पच्छित्तमनंतरियं, हेट्ठा पारंचियस्स अणवट्ठो।
आयरियस्स विसोधी, भणिता इमगा उवज्झाते॥ वृ-पूर्वसूत्रे पाराञ्चिकप्रायश्चित्तमुक्तम्, तस्य अधस्ताद्' अनन्तरितमनवस्थाप्यप्रायश्चित्तं भवति, अतः साम्प्रतं तदभिधीयते।यद्वापूर्वसूत्रेआचार्यस्यशोधिर्भणिता, इयंपुनरुपाध्यायविषया सैवाभिधीयते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः 'अनवस्थाप्याः' तत्क्षणादेव व्रतेष्वनवस्थापनीयाः प्रज्ञप्ताः। तद्यथा-साधर्मिकाः-साधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा 'स्तैन्यं' चौर्यं कुर्वाणः । अन्यधार्मिकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तैन्यं कुर्वन् । तथा हस्तेनाताडनं हस्तातालः, सूत्रे च तकारस्य दकारश्रुतिरार्षत्वात्, तं “दलमाणे" ददत्, यष्टि-मुष्टि-लकुटादिभिरात्मनः परस्य वा प्रहरनितिभावः । अथव “हत्थालंबं"तिपाठः, हस्तालम्ब इव 'हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं "हत्थालंबं" ति पाठः, हस्तालम्बइव हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं “दलमाणे" कुर्वन् । यद्वा “अत्थादानं दलमाणे" त्तिपाठः, तत्र अर्थादानम्' अर्थोपादानकारणमष्टाङ्गनिमित्तं 'ददत्' प्रयुञ्जानः । एष सूत्रसङ्केपार्थः । अथ विस्तरार्थं बिभणिषुराह[भा.५०५९] आसायण पडिसेवी, अणवठ्ठप्पो वि होति दुविहो तु।
एकेको वि यदुविहो, सचरित्तो चेव अचरित्तो।। वृ-आशातनानवस्थाप्यः प्रतिसेव्यनवस्थाप्यश्चेत्यनवस्थायप्योऽपिद्विविधोभवति, न केवलं पाराञ्चिक इति अपिशब्दार्थः । पुनरेकैकोऽपि द्विविधः-सचारित्रोऽचारित्रश्चेति । एतौ द्वावपि भेदौ पाराञ्चिकवद् वक्तव्यौ ॥ अथाशातनानवस्थाप्यमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org