________________
उद्देशकः ४, मूलं-११२, [भा. ५००६]
१२९ दुष्टः २ परपक्षः स्वपक्षे दुष्टः ३ परपषः परपक्षे दुष्ट: ४ । तत्र 'कल्पस्थिकायां' तरुण्यां संयत्यां 'संयतः' अध्युपपन्न इतिप्रथमो भङ्गः। संयतएव शय्यातरभ्रूणिकायामन्यतीर्थक्यांवाऽध्युपपन्न इति द्वितीयः । गृहस्थः संयतीकल्पस्थिकायामध्युपपन्न इति तृतीयः । गृहस्थो गृहस्थायामिति चतुर्थ । एष विषयदुष्टश्चतुर्विधो मन्तव्यः ॥अथैतेषु प्रायश्चित्तमाह[भा.५००७] पढमे भंगे चरिमं, अनुवरए वा वि बितियभंगम्मि ।
सेसेण न इह पगतं, वा चरिमे लिंगदानं तु॥ वृ-प्रथमे भने 'चरमं' पाराञ्चिकम् ‘अनुपरतस्य' अनिवृत्तस्य । द्वितीयेऽपि भङ्गे पाराञ्चिकम्। 'शेषेण तु' तृतीय-चरमभङ्गद्वयेन नात्र प्रकृतम्, अत्र पाराश्चिकस्य प्रस्तुतत्वात् तस्य च परपक्षेऽघटमानत्वात् । अथवा “वा चरिमे लिंगदानं तु"त्ति 'वा' विकल्पेन-भजनया चरम भङ्गद्वये लिङ्गदानं कर्तव्यम्, यद्युपशान्तस्तदाऽन्यस्मिन् स्थाने लिङ्गं दातव्यम् अन्यथा तु नेति भावः ॥ अथ प्रथमभङ्गे दोषं दर्शयन्नाह[भा.५००८] लिंगेन लिंगिनीए, संपत्तिं जइ नियच्छती पावो।
सव्वजिनानऽज्जातो, संघो आसातिओ तेनं ।। वृ-'लिङ्गेन' रजोहरणादिना युक्तः 'लिङ्गिन्याः' संयत्याः सम्पत्तिं यदि अधमतया कथमपि कश्चित् पापः 'नियच्छति' प्राप्नोति तर्हि तेन पापेन सर्वजिनानाम् 'आर्या' संयत्यः सङ्घश्च भगवानाशातितो मन्तव्यः॥ [भा.५००९] पावाणं पावयरो, दिट्ठिऽब्भासे विसो न वट्टति हु।
. जो जिनपुंगवमुदं, नमिऊण तमेव धरिसेति॥ वृ-पापानां सर्वेषामपि स पापतरः, अत एव दृष्टेः-लोचनस्याभ्यासेऽपि-समीपेऽपि कर्तुं सः 'न वर्तते' न कल्पते यः "जिनपुङ्गवमुद्रां' श्रमणीं नत्वा तामेवघर्षयति ॥ [भा.५०१०] संसारमनवयग्गं, जाति-जरा-मरण-वेदनापउरं ।
पावमलपडलछन्ना, भमंति मुद्दाधरिसणेणं ।। कृ-संसारम् अनवदग्रम्' अपर्यन्तंजाति-जरा-मरण-वेदनाप्रचुरंपापमलपटलच्छन्ना मुद्राघर्षणेन परिभ्रमन्ति ॥ ततः[भा.५०११] जत्थुप्पजति दोसो, कीरति पारंचितो स तम्हातु।
सो पुन सेवीमसेवी, गीतमगीतो व एमेव ॥ वृ-यत्र क्षेत्रे यस्य संयतीघर्षणादिको दोष उत्पद्यते उत्पत्स्यते वास तस्मात् क्षेत्रात् पाराञ्चिकः क्रियते । स पुनः सेवी वा स्यादसेवी वा, तेन तत् कार्यं कृतं वा भवेदकृतं वेति भावः; एवमेव गीतार्थो वा भवेदगीतार्थो वा, स सर्वोऽपि पाराञ्चिकः कर्तव्यः । कथम् ? इत्याह[भा.५०१२] उवस्सय कुले निवेसन, वाडग साहि गाम देस रज्जे वा।
कुल गण संघे निजूहणाए पारंचितो होति ।। वृ-यस्य यस्मिन्नुपाश्रये दोष उत्पन्न उत्पत्स्यते वा सतत उपाश्रयात् पाराश्चिकः क्रियते । एवं यस्मिन् गृहस्थकुले दोष उत्पन्नः, तथा निवेशनम्-एकनिर्गम-प्रवेशद्वारो द्वयोमियोरपान्तराले 2097
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org