________________
१२८
बृहत्कल्प-छेदसूत्रम् -३-४/११२ किन्तु तैर्निमन्त्रितेन वक्तव्यम्-पर्याप्तम्, इत ऊर्ध्वं न गच्छति; एष द्वितीय आदेशः॥
अमुमेव व्याचष्टे[भा.५०००]गुरुभत्तिमं जो हिययानुकूलो, सो गिण्हती निस्समणिस्सतो वा।
तस्सेव सो गिण्हति नेयरेसिं, अलब्भमाणम्मि व थोव थोवं ॥ वृ- यो गुरुभक्तिमान् यश्च गुरूणां 'हृदयानुकूलः' छन्दोनुवर्ती स गुरुप्रायोग्यं निश्रागृहेभ्योऽनिश्रागृहेभ्यो वा गृह्णाति, तस्यैव च सम्बन्धि सः' आचार्यो भक्त-पानं गृह्णाति, न 'इतरेषाम्' अपरसाधूनाम् । अथैकः पर्याप्तं न लभते ततोऽलभ्यमाने स्तोकस्तोकं सर्वेषामपि गृह्णाति । एष ग्रहणविधिरुक्तः । सम्प्रति निमन्त्रणे विधिमाह[भा.५००१] सति लंभम्मि विगिण्हति, इयरेसिं जाणिऊण निब्धं ।
मुंचति य सावसेसं, जाणति उवयारभणियं च ।। वृ-'सति' विद्यमानेऽपि प्राचुर्येण लाभे यदि इतरे साधवो निमन्त्रयमाणा गाढं निर्बन्धं कुर्वते ततस्तं ज्ञात्वा तेषामपि गृह्णाति। तच्च तदीयं भुनानः सावशेषं मुञ्चति, मा सर्वस्मिन् भुक्ते प्रद्वेष स गच्छेत् उपचारभणितं च जानाति, 'अयमुपचारेण, अयं पुनः सद्भावेन निमन्त्रयते' इत्येवं बहिश्चिकैरुपलक्षयतीत्यर्थः॥ [भा.५००२] गुरुणो भुत्तुवरियं, बालादसतीय मंडलिं जाति ।
जंपुन सेसगगहितं, गिलाणमादीण तं दिति ।। वृ-गुरूणां यद्भुक्तोद्वरितंतद्बालादीनां दीयते। तेषामभावे 'मण्डली याति' मण्डलीप्रतिग्रहे क्षिप्यते । यत् पुनः शेषैः-गुरुभक्तिमन्धरिक्तैः साधुभिर्मात्रके गृहीतंतद् ग्लानादीनांप्रयच्छन्ति। [भा.५००३] सेसाणं संसहूं, न छुभंती मंडलीपडिग्गहए।
पत्तेग गहित छुब्भति, ओभासणलंभ मोत्तूणं॥ वृ-'शेषाणां गुरुव्यतिरिक्तानां संसृष्टं मण्डलीप्रतिग्रहे न क्षिप्यते । यत्तु ग्लानादीनामर्थाय 'प्रत्येकं पृथक् पृथग् मात्रकेषु गृहीतं तत् तेषामुद्वरितं मण्डल्या प्रक्षिप्यते, परमवभाषितलाभं मुक्त्वा, सन प्रक्षिप्यत इति भावः ।। [भा.५००४] पाहुणगट्ठा व तगं, धरेत्तुमतिबाहडा विगिंचंति ।
इह गहण-भुंजणविही, अविधीए इमे भवेदोसा ।। वृ-प्राघुणकार्थं वा 'तकं ग्लानार्थमानीतं प्रायोग्यं 'धृतवा' स्थापयित्वा यदि अंतिबाहडाः' अतीवध्राताः प्राधुणकाच नायाताः तदा 'विवेचयन्ति' परित्यजन्ति । एवमिह ग्रहणभोजनविधिर्भवति । यद्येनं विधिं न कुर्वन्ति ततस्तस्मिन् अविधौ इमे दोषा भवेयुः।। [भा.५००५] तिव्वकसायपरिणतो, तिव्वतरागाइं पावइ भयाई।
मयगस्स दंतभंजण, सममरणं ढोक्कणुग्गिरणा ।। वृ-व्याख्याता ॥ उक्तः कषायदुष्टः । अथ विषयदुष्टमाह[भा.५००६] संजति कप्पट्ठीए, सिज्जायरि अन्नउत्थिनीए य।
- एसो उ विसयदुट्ठो, सपक्ख परपक्ख चउभंगो॥ वृ-इहापि स्वपक्ष-परपक्षपदाभ्यां चतुर्भङ्गी, तद्यथा-स्वपक्षः स्वपक्षे दुष्टः १ स्वपक्षः परपक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org