________________
उद्देशक : ४, मूलं-११२, [भा. ४९९४]
१२७ एवस भवेत् विहितराजवध इत्यर्थः, एवमनेकविधः परपक्षदुष्टः । एष सर्वोऽपि लिङ्गपाराञ्चिकः कर्तव्यः । योऽपिचआचार्यादिकः तं राजवधकं परिकर्षति' वर्त्तापयति सोऽपिलिङ्गपाराञ्चिको विधेयः ।। अथ तृतीयभङ्ग उच्यते-परपक्षः स्वपक्षे दुष्टः स कथं भवति ? उच्यते-पूर्वं गृहवासे वसतो वादे पराजित आसीत्, स्कन्दकाचार्येण पालकवत्, वैरिको वा स तस्याऽऽसीत् ।
स पुनः कीदृशो भवेत् ? इत्याह[भा.४९९५] सन्नी व असन्नी वा, जो दुट्ठो होति तू सपक्खम्मि ।
तस्स निसिद्धं लिंगं, अतिसेसी वा वि दिजाहि ॥ वृ-सच संज्ञी वा असंज्ञी वायःस्वपक्षे दुष्टो भवति तस्य लिङ्गं निषिद्धम्, प्रव्रज्या न दातव्येति भावः। अतिशयज्ञानी वा 'उपशान्तोऽयम्' इति मत्वा तस्यापि लिङ्गं दद्यात् ।।
अथ चतुर्थभङ्गः परपक्षः परपक्षे दुष्ट इति भाव्यते[भा.४९९६] रन्नो जुवरन्नो वा, वधतो अहवा वि इस्सरादीणं ।
. सो उसदेसि न कप्पइ, कप्पति अन्नम्मि अन्नाओ॥ वृ-योराज्ञो वा युवराजस्य वा वधकः अथवाऽपिईश्वरादीनां घातकः ‘सतु' सपुनः स्वदेशे दीक्षितुंन कल्पते, किन्तु कल्पतेऽन्यस्मिन् देशेऽज्ञातो दीक्षितुम् ।। [भा.४९९७] इत्थ पुन अधीकारो, पढमिल्लुग-बितियभंगदुडेहिं।
तेसिं लिंगविवेगो, दुचरिमे वा लिंगदानं तु॥ वृ-अत्र पुनः प्रथम-द्वितीयभङ्गदुष्टैरधिकारः, 'स्वपक्षः स्वपक्षे दुष्टः, स्वपक्षः परपक्षे दुष्टः' इत्याद्यभङ्गद्वयवर्तिभिरिति भावः । एतेषां लिङ्गविवेकरूपं पाराञ्चिकं दातव्यम् । अतिशयज्ञानी वा यदि जानाति 'न पुनरीशं करिष्यति' इति ततः सम्यगावृत्तस्य लिङ्गविवेकं न करोति । "दुचरिमे"त्ति तृतीय-चतुर्थलक्षणौ यौ द्वौ चरमभङ्गौ तयोः 'वा' विकल्पेन लिङ्गदानं कर्त्तव्यम् । किमुक्तंभवति?- परपक्षः स्वपक्षेदुष्टः, परपक्षः परपक्षे दुष्टः' इति भङ्गद्वये वर्तमानायधुपशान्ता इति सम्यग् ज्ञायन्ते ततो लिङ्गदानं कर्तव्यम्, अथ नोपशान्तास्ततो न प्रव्राज्यन्ते । प्रव्राजिता अपि तानि स्थानानि परिहार्यन्ते; एष वाशब्दसूचितोऽर्थः ॥ अथ 'सर्षपनालादिष्टान्तप्रसिद्धा दोषा मा भूवन्' इति हेतोराचार्येण यथा सामाचारी स्थापनीया तथा प्रतिपादयन्नाह- . [भा.४९९८] सव्वेहि विघेत्तव्वं, गहणे य निमंतणे यजो तु विही।
भुंजती जतनाए, अजतण दोसा इमे होति॥ वृ-सर्वैरपि साधुभिराचार्यप्रायोग्यं स्वस्वमात्रकेषुग्रहीतव्यम्। तथा ग्रहणे चनिमन्त्रणेचयो वक्ष्यमाणो विधि स सर्वोऽपि कर्तव्यः । एवं यतनया सूरयो भुञ्जते ।अयतनया तु भुजानानाम् 'इमे' वक्ष्यमाणा दोषा भवन्ति । एनामेव नियुक्तिगाथां भावयति[भा.४९९९] सव्वेहि विगहियम्मी, थोवं थोवंतु के विइच्छंति।
सव्वेसिन विभुंजति, गहितं पि बितिज आदेसो।। वृ-सर्वैरपि आचार्यप्रायोग्ये गृहीते केचिदाचार्या इदमिच्छन्ति, यथा-तत एकैकस्य हस्तात् स्तोकं स्तोकं गृहीत्वा गुरुणा भोक्तव्यम्; एष प्रथम आदेसः । अपरे ब्रुवते-एकेनैव गुरुयोग्यं ग्रहीतव्यम्, अथान्यैरपि गृहीतं ततस्तद्गृहीतमपितेषांसर्वेषां हस्तात् स्तोकस्तोकंन भोक्तव्यम्,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only