________________
१२६
बृहत्कल्प-छेदसूत्रम् -३-४/११२ गत्वा 'कुत्रतेषांशरीरम् ?' इति पृच्छा कृता ।गुरुभिश्चपूर्वमेव तदीयोवृत्तान्तः कथित आसीत्। "दायण"त्ति अकारप्रश्लेषात् ततस्तैराचार्यशरीरपरिष्ठापनाभूमिर्न दर्शिता । स चान्यतः श्रुत्वा गतो दन्तमञ्जनं कृतवान् । साधुभिश्च गुपिलस्थाने स्थितैः प्रतिचरणं कृतमिति॥
अथ मुखानन्तकदृष्टान्तमाह[भा.४९९०] मुहनंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं ।
सम्मूढेणियरेण वि, गलए गहितो मता दो वि॥ वृ-एकेन साधुना मुखानन्तकमतीवोज्ज्वलं लब्धम्, तस्य च गुरुमिर्ग्रहणं कृतम् । तत्रापि ‘एवमेव' पूर्वाख्यानकसशं वक्तव्यम् । नवरंतत् पुनर्मुखानन्तकं प्रत्यर्पयतोऽपिन गृहीतम् । ततो गुरुणा खगण एव मक्तंप्रत्याख्यातम् । निशायां विरहं लब्ध्वा 'मुखानन्तकं गृह्णासि' इति भणता गाडतरंगले ग्रहणं कृतम् । सम्मूढेन च इतरेणापि' गुरुणा स गलके ग्रहीतः । एवं द्वावपि मृतौ ॥ उलूकाक्षदृष्टान्तमाह[भा.४९९१] अत्थंगए विसिव्वसि, उलुगच्छी ! उक्खणामि ते अच्छी।
पढमगमो नवरिइहं, उलुगच्छीउ त्ति दोक्केति॥ वृ- एकः साधुरस्तङ्गतेऽपि सूर्ये सीव्यन् अपरेण साधुना परिहासेन भणितः-उलूकाक्ष ! किमेवमस्तङ्गतेऽपि सूर्ये सीव्यसि ? । स प्राह-एवं भणतस्तव द्वेअप्यक्षिणी उत्खनामि । अत्रापि सर्वोऽपि प्रथमाख्यानकगमो मन्तव्यः । नवरमिह स्वगणे प्रत्याख्यातभक्तस्य कालगतस्य रजोहरणाद् अयोमयीं कीलिकामाकृष्य 'मां उलकाक्षं भणसि?' इति ब्रुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य दौकयति, “वैरं मया निमितम्' इति कृत्वा । शिखरिणीदृष्टान्तमाह[मा.४९९२] सिहरिणिलंभाऽऽलोयण, छंदिए सव्वाइते अ उग्गिरणा।
भत्तपरिन्ना अन्नहि, न गच्छती सो इहं नवरिं॥ वृ-एकेन साधुना उत्कृष्टा शिखरिणी लब्धा ।साचगुरूणामालोचिता, तयाचगुरवः 'छन्दिताः' निमन्त्रिताः ।सा चतैः सर्वाऽप्यापीता । ततः ससाधुः प्रद्वेषमुपगतोमारणार्थदण्डकमुद्रीर्णवान्। सगुरुभिःक्षामितोऽपियदा नोपशाम्यति तदा भक्तपरिज्ञाकृता।नवरमिह सः' आचार्योऽन्यस्मिन् गणे न गतः। तस्य च समाधिना कालगतस्य शरीरकं तेत दण्डकेन कुट्टितम् ।।
यत एते दोषास्ततो लोमस्तीव्रो न कर्तव्यः । प्रथा चाह[भा.४९९३] तिव्वकसायपरिणतो, तिव्वयरागाणि पावइ भयाई।
मयगस्सं दंतमंजन, सममरणं ढोक्कनुग्गिरणा॥ वृ-तीव्राः उत्कटा ये कषायस्तेषु परिणतो जीवस्तीव्रतरकाणि भयानि प्राप्नोति । यथाप्रथम दृष्टान्तोक्तस्याचार्यस्य तीव्रलोभपरिणतस्य दन्तमञ्जनभयम्, द्वितीय दृष्टान्तोक्तयोस्तु शिष्याऽऽचार्ययोस्तीव्रक्रोधपरिणतयोः समकालंमरणम्, तृतीयदृष्टान्तोक्तस्यदण्डकोद्गिरणम्। ईशाः स्वपक्षकषायदुष्टालिङ्ग पाराञ्चिकाः कर्तव्याः॥गतः प्रथमो भङ्गः।अथद्वितीयभङ्गमाह[भा.४९९४] रायवधादि परिणतो, अहवा वि हवेज रायवहओतु।
सो लिंगतो पारंची, जो विय परिकहती तंतु॥ वृ-राज्ञो राजामात्यस्य वा अपरस्य वा प्राकृतगृहस्यस्य वधाय परिणतः, अथवा राजवधक
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org