________________
१६३
उद्देशक ः ४, मूलं-११४, [भा. ५१७६]
कृ-द्विविधो नपुंसकः-ज्ञायकोऽज्ञायकश्च । तत्र यो जानाति 'साधूनां त्रैराशिकः प्रव्राजयितुं न कल्पते' स ज्ञायकः, तद्विपरीतोऽज्ञायकः। तत्रज्ञायकमुपस्थितंप्रज्ञापयन्ति-भवान् दीक्षाया अयोग्यः, ततोऽव्यक्तवेषधारी श्रावकधर्मं प्रतिपद्यस्व, अन्यथाज्ञानादीनां विराधनातेभविष्यति। अज्ञायकमप्येवमेव प्रज्ञापयन्ति । अथैनां प्रज्ञापनां नेच्छति प्रव्रज्यामेवाभिलषति आत्मनश्च किञ्चिदशिवादिकं कारणमुपस्थितंततस्तमज्ञायकंजनप्रत्ययार्थम् 'अमीभिः' कटीपट्टकादिभिः प्रज्ञापयन्ति।सचाज्ञायकस्तत्र जनेन ज्ञायमानोऽजायमानो वा स्यादुभयत्राप्ययं विधिकर्तव्यः॥ [भा.५१७७] कडिपट्टए य छिहली, कत्तरिया भंड लोय पाढे य।
धम्मकह सन्नि राउल, ववहार विगिचणा विहिना॥ वृकटीपट्टकं स परिधापयितव्यः । छिहली' शिखा तस्य सिरसिधारणीया । अथ नेच्छति ततः कर्त्तयाँ 'भाण्डेन वा' क्षुरेण मुण्डनं विधेयम्, लोचो वा विधातव्यः । “पाडि"त्ति परतीर्थिकमतादीनि स पाठनीयः । कृते कार्ये धर्मकथा कर्तव्या येन लिङ्गं परित्यज्य गच्छति। अथैवं लिङ्गं न मुञ्चति ततः ‘संज्ञिभिः' श्रावकैः प्रज्ञापनीयः ।अथ राजकुलं गत्वा कथयति ततो व्यवहारोऽपि कर्तव्यः । एवं तस्य 'विगिञ्चना' परिष्ठापना 'विधिना' वक्ष्यमाणनीत्या विधेया। एष द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवृणोति[मा.५१७८]कडिपट्टओ अभिनवे, कीरइ छिहली यअम्हऽवेवाऽऽसी।
कत्तरिया भंडं वा, अनीच्छे एक्केवपरिहानी ।। वृ-कटीपट्टकोऽभिनवप्रव्रजितस्य तस्य क्रियतेन पुनरग्रावपूरकः, शिरसि च 'छिहलीनाम' शिखा ध्रियते। यदि ब्रूयात्-किंममानावपूरकं सर्वमुण्डनं वा न कुरुत?; ततो वृषभा भणन्तिअस्माकमपिप्रथममेवमेव कृतमासीत्।तच्च मुण्डनं कर्तर्याकर्तव्यम्, अथनेच्छतिततः 'भाण्डेन' क्षुरेण, क्षुरमप्यनिच्छतोलोचः कर्तव्यः । एवमेकैकपरिहाणिर्मन्तव्या।शिखातुसर्वत्रापिधारणीया। [भा.५१७९] छिहलिं तुअनीच्छंते, भिक्खुगमादीमतं पऽनीच्छंते।
परउत्थियवत्तव्वं, उक्कमदानं ससमए वि॥ वृ-अथ शिखामपि नेच्छति ततः सर्वमुण्डनमपि विधीयते । पाठस्तु-द्विविधा शिक्षा-ग्रहणे आसेवने च । आसेवनाशिक्षायां क्रियाकलापमसौ न ग्राह्यते । ग्रहणशिक्षायाम्-भिक्षुकाःसौगतास्तेषाम् आदिशब्दात् कपिलादीनांच परतीथिकानां मतमध्याप्यते; अथ तदपि नेच्छति ततः शृङ्गारकाव्यं पाठ्यते, तदप्यनिच्छन्तंद्वादशाङ्गेयानि परतीर्थिकवक्तव्यतानिबद्धानिसूत्राणि तानि पाठयन्ति, तान्यप्यनिच्छतः स्वसमयस्यालापका उत्क्रमेण विलुलिता दीयन्ते॥
आसेवनाशिक्षायां विधिमाह[मा.५१८०] वीयार-गोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं ।
गाहेह ममं पि ततो, तेरा गाहेंति जत्तेणं॥ वृ-विचारभूमिंगच्छन् गोचरं वा पर्यटन स्थविरसाधुसंयुक्तो हिण्डाप्यते।रात्रौ तरुणानांदूरे क्रियते।तंच साधवो न पाठयन्ति ततो यदिब्रूयात्-मामपि पाठंग्राहयत, ततः स्थविराः साधवो यलेन ग्राहयन्ति ॥ किं तत् ? इत्याह
[भा.५१८१]. वेरग्गकहा विसयाण निंदणा उट्ठ-निसियणे गुत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org