________________
१६२
बृहत्कल्प-छेदसूत्रम् - ३-४/११४
वृ- स्त्री प्रव्राजिता स्त्रीणां मध्ये निवसति, पुरुषः प्रव्राजितः पुरुषमध्ये वसति, एवं तौ प्रत्येकं दोषरहितेषु स्थानेषु वसतः । इतरस्तु पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्पर्शतो ष्टितश्च दोषा भवन्ति, एवं पुरुषेष्वपि संवसतस्तस्य दोषा भवन्ति । वत्सा-ऽऽम्रध्ष्टान्तश्चात्र भवति यथा वत्सो मातरं दृष्ट्वा स्तन्यमभिलषति, माताऽपि पुत्रं दृष्ट्वा प्रस्नौति; आनं वा खाद्यमानमखाद्यमानं वा दृष्ट्वा यथा मुखं क्लिद्यति; एवं तस्य संवासादिना वेदोदयेनाभिलाष उत्पद्यते । भुक्ताऽभुक्तभोगिनः साधवो वा तमभिलषेयुः । यतएवमतः पण्डको न दीक्षणीयः । द्वितीयपदे एतैः कारणैः प्रव्राजयेऽपि -
[ भा. ५१७२]
असिवे ओमोयरिए, रायद्दुट्टे भए व आगाढे । गेलन उत्तिमट्ठे, नाणे तह दंसण चरित्ते ॥
वृ- स प्रव्राजितः सन् अशिवमुपशमयिष्यति, अशिवगृहीतानां वा प्रतितर्पणं करिष्यति । एवमवमौदर्ये राजद्विष्टे बोधिकादिभये वा आगाढे ग्लानत्वे उत्तमार्थे वा ज्ञाने दर्शने चारित्रे वा साहायकं करिष्यति । एतैः कारणैः पण्डकं प्रव्राजयेत् । अथैनामेव गाथां व्याख्यातिराहु-भए, ताट्ठ निवस्स चेव गमनट्ठा । विज्जो व सयं तस्स व, तप्पिस्सति वा गिलाणस्स ॥
[भा. ५१७३ ]
वृ- राजद्विष्टे बोधिकादिभये च त्राणार्थं नृपस्य वा अभिगमनार्थम् । किमुक्तं भवति ? - राजद्विष्टे समापतिते देशान्तरं गच्छतां तन्निस्तारणक्षमं भक्त-पानाद्युपष्टम्भं करिष्यति, राजवल्लभो वा स पण्डकस्ततो राजानमनकूलयिष्यति, बोधिकादिभये वा स बलवान् गच्छस्य परित्राणं विधास्यति । ग्लानत्वद्वारे-स पण्डकः स्वयमेव वैद्यो भवेत् ततो ग्लानस्य चिकित्सां करिष्यति, यद्वा सः 'तस्य' वैद्यस्य ग्लानस्य वा वेतन - भेषजादिना 'प्रतितर्पिष्यति' उपकरिष्यति । वाशब्दाद् उत्तमार्थप्रतिपन्नस्य वा ममासहायस्य साहाय्यं करिष्यति, स्वयमेव वाऽसावुत्तमार्थं प्रतिपस्त्यते ॥
[ भा. ५१७४] गुरुणो व अप्पणो वा, नाणादी गिण्हमाण तप्पिहिति । चरणे देसावक्कमि, तप्पे ओमा -ऽसिवेहिं वा ॥
वृ तथा गुरोरात्मनो वा ज्ञानम् आदिशब्दाद् दर्शनप्रभावकानि शास्त्रणि गृह्णतोऽसौ भक्तपानादिभिर्वस्त्रादिभिश्चोपकरिष्यति । चरणे यत्र चारित्रं पालयितुंन शक्यते ततो देशादपक्रमणं कुर्वतां मार्गग्रामादिषु स्वजनादिबलाद् भक्त-पानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति । अवमाऽ शिवयोर्वा प्रतितर्पिष्यति । अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थं अवमाऽशिवद्वारयोः पर्यन्ते व्याख्यानम् ॥ [भा. ५१७५]
Jain Education International
एएहि कारणेहिं, आगाढेहिं तु जो उ पव्वावे ।
पंडाईसोलसगं, कए उ कजे विगिंचणया ॥
वृ- एतैः कारणैरागादैः समुपस्थितैर्य पण्डकादिषोडशकस्यान्यतरं नपुंसकं प्रव्राजयति तेनाऽऽचार्येण 'कृते' समापिते कार्ये तस्य नपुंसकस्य 'विवेचनं' परिष्ठापनं कर्तव्यम् ॥
तत्र प्रव्राजनायां तावद् विधिमाह
[ भा. ५१७६ ] दुविहो जानमजानी, अजानगं पन्नवेंति उ इमेहिं । जनपञ्चयट्ठयाए, नजंतमणज्रमाणे वि ॥
For Private & Personal Use Only
www.jainelibrary.org