________________
उद्देशक : ४, मूलं-११४, [भा. ५१६६]
१६१ गृहचटक इवाऽभीक्ष्णप्रतिसेवनांकरोति। 'तत्कर्मसेवीनाम' यदा प्रतिसेविते बीजनिसर्गोभवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तुसउच्यते यस्यैकस्मिन् शुक्ले कृष्णेवापक्षेऽतीवमोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति॥ [भा.५१६७] सोगंधिए य आसित्ते, वद्धिए चिप्पिए तिय। .
मंतोसहिओवहते, इसिसत्ते देवसत्ते य ।। वृ-'सौगन्धिको नाम सागारिकस्य गन्धं शुभमन्यते, सच सागारिकं जिघ्रतिमलयित्वा वा हस्तं जिघ्रति । “आसित्तो नाम" स्त्रशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुप्रविश्य नित्यमास्ते। एतेसर्वेऽपिनिरुद्धवस्तयः कालान्तरेण नपुंसकतयापरिणमन्ति। एतेचपण्डकादयो दशापि प्रव्राजयितुमयोग्याः।तथा 'वर्द्धितोनाम' यस्य बालस्यैवच्छेदं दत्त्वा द्वौभ्रातरावपनीतौ। 'चिप्पितस्तु' यस्यजातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी-मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम्। अपरस्तु मन्त्रेणोपहतो भवति।अन्यः पुनरौषध्या उपहतः।कश्चिद्ऋषिणा शप्तो भवति-मम तपःप्रभावात् पुरुषभावस्तेमा भूयात्। एवमपरोदेवेन रुष्टेन शप्तः। एतेवर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः॥
अथैतेषां प्रव्राजने प्रायश्चित्तमाह[भा.५१६८]दससु विमूलाऽऽयरिए, वयमाणस्स वि हवंति चउगुरुगा।
सेसाणं छण्हं पी, आयरिए वदंति चउगुरुगा।। वृ-पण्डकादीन्आसिक्तान्तान् दशापि नपुंसकान्यः प्वाजयति तस्याऽऽचार्यस्य दशस्वपि प्रत्येकं मूलम् । तेष्वेव दशसु यो वदति 'प्रवाजयत' तस्याऽपि चतुर्गुरुका भवन्ति । 'शेषाणां' वर्द्धितादीनां पन्नामपि प्रतिसेवकानां प्रव्राजने आचार्यस्य चतुर्गुरुकम् । यो वदति 'प्रव्राजयत' तस्यापि चतुर्गुरुकम् ॥अथ शिष्यः प्रश्नयति[भा.५१६९] थी-पुरिसा जह उदयं, धरैति झाणोववास-नियमेहि।
एवमपुमं वि उदयं, धरिज जति को तहिं दोसो॥ वृ- यथा स्त्री-पुरुषा ध्यानोपवास-नियमैरुपयुक्ता वेदोदयं धारयन्ति, एवम् ‘अपुमान्' नपुंसकोऽपि यदि वेदोदयं धारयेत् ततः 'तत्र' प्रव्राजिते को दोषः स्यात् ? ॥ [भा.५१७०] अहवा ततिए दोसो, जायइ इयरेसु किं न सो भवति ।
एवंखु नस्थि दिक्खा, सवेययाणं न वा तित्थं ॥ वृ-अथवायुष्माकमभिप्रायो भवेत्-'तृतीये'नपुंसके वेदोदये चारित्रभङ्गलक्षणो दोषो भवेत्, तत उच्यते-'इतरयोः' स्त्र-पुरुषयोरपिवेदोदयेस दोषः किं न भवति? ।अपिच-क्षीणमोहादीन् मुक्त्वा शेषाः सर्वेऽपि संसारस्था जीवाः सवेदकाः, तेषां च दोषदर्शनादेव भवदुक्तनीत्या नास्ति दीक्षा, तदभावाच्च 'न तीर्थं' न तीर्थस्य सन्ततिर्भवति ॥ सूरिराह[भा.५१७१] थी-पुरिसा पत्तेयं, वसंति दोसरहितेसु ठाणेसु ।
संवास फास दिट्ठी, इयरे वत्थंवदिटुंतो ।। | 20[11]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org