________________
१६४
बृहत्कल्प - छेदसूत्रम् - ३-४/११४
चुक्क - खलिएसु बहुसो, सरोसमिव चोदए तरुणा ।।
वृ- यानि सूत्राणि वैराग्यकथायां विषयनिन्दायां च निबद्धानि तानि ग्राह्यते, अथवा वैराग्यकथा विषयनिन्दा च तस्य पुरतः कथनीया । उत्तिष्ठन्तो निषीदन्तश्च साधवः 'गुप्ताः' सुसंवृता भवन्ति यथाऽङ्गादानं स न पश्यति । तस्य यदि सामाचार्यां चुक्क- स्खलितानि भवन्ति; चुक्कं नाम - विस्मृतं किञ्चित् कार्यम्, स्खलितं तदेव विनष्टम् ततो ये तरुणास्ते सरोषमिव तं परुषवचोभिर्बहुशो नोदयन्ति येन तरुणेषु नानुबन्धं गच्छति ॥ अथ धर्मकथापदं व्याचष्टे
[ भा. ५१८२ ] धम्मकहा पाढिज्जति, कयकज्जा वा से धम्ममक्खति । माहन परं पि लोगं, अनुव्वता दिक्ख नो तुज्झं ॥
वृ- धर्मकथाः वा स पाठ्यते । 'कृतकार्या वा' येन कार्येण दीक्षितस्तं समापितवन्तः “से” तस्य धर्ममाख्यान्ति, यथा-महाभाग ! रजोहरणादि लिङ्गं धारयन् परभवे बोधेरुपघातकरणाय त्वं वर्तसे ततो मा परमपि लोकं 'हन' विनाशय, मुञ्च रजोहरणादि लिङ्गम्, तवाणुव्रतानि धारयितुं
,
बुध्यन्ते न दीक्षा ।। एवं प्रज्ञापितो यदि मुञ्चति तदा लष्टम्, अथ न मुञ्चति ततः
[भा. ५१८३] सन्नि खरकम्पिओ वा, भेसेति कतो इधेस कंचिक्को । निवसिट्टे वा दिक्खितो, एतेहिं अनाते पडिसेहो ॥
वृ- यः खरकर्मिकः संज्ञी स पूर्वं प्रज्ञाप्यते - अस्माभि कारणे त्रैराशिकः प्रव्राजितः, स इदानीं लिङ्गं नेच्छति परित्यक्तुं ततो यूयं प्रज्ञापयत । एवमुक्तोऽसावागत्य गुरून् वन्दित्वा सर्वानपि साधून् निरीक्षते, ततस्तं पण्डकं पूर्वकथितचित्रैरुपलक्ष्य भूमितलास्फालन - शिरः कम्पनखरद्दष्टिनिरीक्षण-परुपवचनैर्भेषयति- कुत एषः 'इह' युष्माकं मध्ये 'कञ्चित्कः' नपुंसकः ? इति तं च ब्रवीति-अपसर साम्प्रतमितः, अन्यथा व्यपरपयिष्यामि भवन्तम् । एवमुक्तोऽपि यदि लिङ्गं न मुञ्चति, खरकर्मिकस्य वा श्रावकस्याभावे यदि नृपस्य कथयति अहमेतैर्दीक्षितः साम्प्रतं पुनः परित्यजन्ति; ततो व्यवहारेण जेतव्यः । कथम् ? इत्याह- यद्यसौ जनेनाज्ञातो दीक्षितस्ततः प्रतिषेधः क्रियते, 'नास्माभिर्दीक्षितः' इति अपलप्यत इत्यर्थः ।। अथासौ ब्रूयात्
[भा. ५१८४] अज्झाविओ मि एतेहि चेव पडिसेधो किं वऽधीयं ते । छलियातिकहं कति, कत्थ जती कत्थ छलिया ||
वृ- अहमेतैरेवाध्यापितस्ततोऽपि प्रतिषेधः कार्य, न किमप्यस्माभिरध्यापित इत्यर्थः । अथवा वक्तव्यम्-किं त्वयाऽधीतम् ? । ततोऽसौ छलितकाव्यादिकथामाकर्षेत् तत्र वक्तव्यम्-कुत्र यतयः ? कुत्र च छलितादिकाव्यकथा ?, साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पठन्ति न वा पाठयन्ति । वयमीदृशं सर्वज्ञभाषितं सूत्रं पठामः
[भा. ५१८५ ] पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं । पोराणमद्धमागहभासानियतं हवति सुत्तं ॥
-
वृ- यत्र पूर्वसूत्रनिबन्धः पाश्चात्यसूत्रेण न व्याहन्यते तत् पूर्वापरसंयुक्तम् । 'वैराग्यकरं ' विषयसुखवैमुख्यजनकम्। स्वतन्त्रेण- स्वसिद्धान्तेन सहाविरुद्धं स्वतन्त्रविरुद्धम्, 'सर्वथा सर्वकालं सर्वत्र नास्त्यात्मा' इत्यादिस्वसिद्धान्तविरोधरहितमित्यर्थः । 'पोराणं नाम' पुराणैः तीर्थकरगणधरलक्षणैः पूर्वपुरुषैः प्रणीतम् । अर्धमागधभाषानियतमिति प्रकटार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org